________________
पद्मपुराणम् ।
१४३
चतुरशीतितमं पर्व |
किंक्रुद्धः किं पुनः शांतःकिंस्थितो भरतांतिके । किमेतदिति लोकस्य कथा नेभे निवर्त्तते ॥ १६ ॥ मगधेन्द्रा निःशेषा महामात्राः समागताः । प्रणम्यादरिणोऽवोचन्पद्मं लक्ष्मणसंगतम् ॥ १७ ॥ aise वर्तते देव तुरीयो राजदंतिनः । विमुक्त पूर्वकृत्वस्य लविग्रहारिणः ॥ १८ ॥ यतः प्रभृति संक्षोभं संप्राप्य सममागतः । तत एव समारंभ्य वर्तते ध्यानसंगतः ॥ १९ ॥ महायतं विनिःश्वस्य मुकुलाक्षो ऽतिविद्दलः । चिरं किं किमपि ध्यात्वा हंति हस्तेन मेदिनीम् २० बहुप्रियशतैः स्तोत्रैः स्तूयमानोऽपि संततम् । कवलं नैव गृह्णाति न हवं कुरुते श्रुतौ ॥ २१ ॥ विधाय दंतयोर करं मीलितलोचनः । लेप्यकर्म गजेंद्रस्य चिरं याति समुन्नताम् ।। २२ ।। किमयं कृत्रिम ती किंवा सत्यमहाद्विपः । इति तत्र समस्तस्य मतिर्लोकस्य वर्तते ॥ २३ ॥ चाटुवाक्यानुरोधेन गृहीतमपि कृच्छतः । विमुंचत्यास्यमप्राप्तं कवलं मृष्टमप्यलम् || २४ ॥ त्रिपदीछेदललितं समुत्सज्य शुचान्वितः । आसज्य किंचिदालाने विनिःश्वस्यावतिष्ठते ।। २५ ।। समस्तशास्त्रसत्कारविमलीकृतमानसः । प्रख्यातैरप्यलं वैद्यैर्भावो नास्योपलक्ष्यते ।। २६ ।। रचितं स्वादरेणापि संगीतं सुमनोहरम् । न शृणोति यथापूर्व कापि निक्षिप्तमानसः ॥ २७ ॥ मंगलैः कौतुक मंत्रविद्याभिरौपधैः । न प्रत्यापत्तिमायाति लालितोऽपि महादरैः ॥ २८ ॥
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org