________________
पद्मपुराणम् ।
१४२
चतुरशतितम पर्व । प्राप्यनारायणादाज्ञामन्यैरुत्तमसमदैः । सर्वालंकारयोगेन परां पूजां च लभितः ॥ ३॥ प्रशान्ते द्विरदश्रेष्ठे नगर्याकुलतोज्झिता । घनाधनपटोन्मुक्ता रराज शरदा समम् ॥४॥ विद्याधरजनाधीशैश्चंडा यस्योत्तमा गतिः । रोर्बु नातिवलैः शक्या नाकस भिरेव वा ॥ ५ ॥ सोऽयं कैलाशकंपस्य राक्षमेंद्रस्य वाहनः । कृतपूर्वकथं रुद्धः सीरिणा लक्ष्मणेन च ॥६॥ तादृशी विकृति गत्वा यदयं शममागतः । तदस्य पूर्वलोकस्य पुण्यं दीर्घायुरावहम् ॥ ७ ॥ नगर्यामिति सर्वस्या पर विस्मयमीयुषः । लोकस्य संकथा जाता विधृत करमस्तका ।। ८॥ ततः सीताविंशल्याभ्यां समं तं वारणेश्वरम् । आरुह्य सुमहाभूतिभरतः प्रस्थितो गृहम् ॥ ९ ॥ महालंकारधारिण्यः शेषा अपि वरांगनाः । विचित्रवाहनारूढा भरतं पर्यवेष्टयन् ॥ १० ॥ तुरंगरंथमारूढो विभूत्या परयाऽन्वितः । शत्रुघ्नोऽस्य महातेजाः प्रययावग्रतः स्थितः ॥ ११ ॥ झम्लाम्लातकभेयादिमहावादिननिस्वनः । संजातः शंखशब्देन मिश्रः कोलाहलान्वितः ॥१२॥ कुसुमामोदभुद्यानं त्यक्त्वा ते नंदनोपमम् । त्रिदशा इव संपापुरालयं सुमनोहरम् ॥१३॥ उत्तीर्य द्विरदाद्राजा प्रविश्याऽऽहारमंडपम् । साधून्संतमे विधिवत्प्रणम्य च विशुद्धधीः ॥१४॥ मित्रामात्यादिभिः माई भ्रामपत्नीभिरेव च । आहारमकरोतत्स्वं स्वं ततो यातो जनःपदम् ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org