________________
पद्मपुराणम् ।
१४१
चतुरशीतितम पर्व। च्युतोऽऽयं पुण्यशेषेण जातः पुरुषसत्तमः । कष्टं निंदितकर्माहं तिर्यग्योनिमुपागतः ॥ १२९ ।। कार्याकार्यविवेकेन सुदूरं परिवर्तितम् । कथं प्राप्तोऽस्मि हस्तित्वं धितदिति गर्हितम् ॥१३०॥ परितप्येऽधुना व्यर्थ किमिदं स्मृतिसंगतः। करोमि कर्म तद्येन लभ्यते हितमात्मने ॥ १३१ ॥ उद्वेगकरणं नात्र कारणं दुःखमोचने । तस्मादुपायमेवाहं घटे सवोदरान्वितः ।। १३२ ।।
इति स्मृतातीतभवो गजेंद्रो; भवत्तु वैराग्यमलं प्रपन्नः।। ___ दुरीहितकांतपराङ्मुखात्मा; स्थितः सुकर्मार्जनचिंतनाग्रः ॥१३३॥ कृतानि कर्माण्यशुभानि पूर्व संतापमुग्रं जनयंति पश्चात् ।
तस्माजनाः कर्म शुभं कुरुध्वं; रखौ सति प्रस्खलनं न युक्तम् ॥ १३४ ॥ इत्यारे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे त्रिभुवनालंकारक्षोभाभिधानं नाम व्यशीतितम पर्व ।
अथ चतुरशीतितमं पर्व । तथा विचितयन्नेष विनयी द्विपसत्तमः । पद्माभ चक्रपाणिभ्यां वहद्भयां विस्मयं परम् ॥१॥ किंचिदाशंकितात्माभ्यामुपश्रित्य शनैः शनै । महाकालघनाकारो जगृहे भाषिताप्रियः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org