________________
पद्मपुराणम् ।
१४०
त्र्यशीतितमं पर्व ।
त्रासाकुलेक्षणा नार्यो महासंभ्रमसंगताः । शिश्रियुभरतं त्राणं भानु दीधितयो यथा ॥ ११६ ।। भरताभिमुखं यान्तं जनो वीक्ष्य गजोत्तमम् । हाहेति परमं तारं विलापं परितोऽकरोत् ॥११७॥ विव्हला मातरश्वास्य महोद्वेगसमागताः । बभूवुः परमाशंकाः पुत्रस्नेहपरायणाः ॥ ११८ ॥ तावत्परिकर बद्धा पद्माभो लक्ष्मणस्तथा । उपसर्पति सछममहाविज्ञानसंगतः॥ ११९ ॥ नभश्चर महामात्रान्समुत्सार्य भयार्दितान् । बलाद्ग्रहीतुमुद्युक्तो तमिभेन्द्रमलं चलम् ।। १२० ॥ सरोषमुक्तनिस्वानो दुःप्रेक्ष्यः प्रबलो जबी । नागपाशैरपि गजः संरोद्धं न स शक्यते ॥१२१॥ ततोगना जनांतस्थं श्रीमंतं कमलेक्षणम् । भरतं वीक्ष्य नागोऽसौ व्यतीतं भवमस्मरन् ॥१२२॥ संजातोद्वेगभारश्च कृत्वा प्रशिथिलं करम् । भरतस्याग्रतो नागस्तस्थो विनयसंगतः ॥ १२३ ।। जगाद भरतश्चनं परं मधुरया गिरा । अहोऽनेकपनाथ त्वं रोषितः केन हेतुना ॥१२४॥ निशम्य वचनं तस्य संज्ञां संप्राप्य वारणः । अत्यर्थशांत चेतस्को निश्चलः सौम्यदर्शनः॥१२५॥ स्थितमग्रे वरस्त्रीणां स्निग्धं भरतमीक्षते । पुरे वा सरसां बुंदे स्वर्गे गीर्वाणसत्तमम् ॥ १२६॥ परिज्ञानी ततो नागश्चिंतामेवं समाश्रितः । मुक्तात्याऽऽयतनिःश्वासो विकारपरिवर्जितः॥१२७।। एषोऽसौ यो महानासीत्कल्पे ब्रह्मोत्तराभिधे । देवः शशांकशुभ्रश्रीवयस्यः परमो मम ॥१२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org