________________
१३९
व्यशीतितमं पर्व ।
संप्राप्तप्रसरास्तस्मात्ततः शंकाविवर्जिताः । नार्यस्ता भारतीयाच प्रापुः परमसंमदम् ||१०३।। परिवार्य ततस्तास्तं समस्ताचारुविभ्रमाः । अवतीर्णी महारम्यं सरः सरसिजेक्षणाः ।। १०४ ॥ क्रीडानिस्पृहचित्तोऽसौ तत्त्वार्थगतमानसः । योषितामनुरोधेन जल संगमशिश्रियत् ।। १०५ ।। देवीजनसभाकीर्णो विनयेन समन्वितः । विरराज सरः प्राप्तः करी यूथपतिर्यथा || १०६ ।। स्निग्धैः सुगंधिमिः कांतैस्त्रिभिरुद्वर्त्तनैरमौ । उद्वर्त्तितः पृथुच्छायापहरंजितवारिभिः ॥ १०७ ॥ किंचित्संक्रीड्य संवेष्टः स्नातः सुमनोहरः । सरसः केकयानुरुत्तीर्णः परमेश्वरः ।। १०८ ।। विहितार्हन्महापूजः पद्मनीलोत्पलादिभिः । सादरेगांगनौघेन स समग्रमलंकृतः ||१०९।। एतस्मिन्नंतरे योऽसौ महाजलधराकृतिः । त्रिलोकमंडनाभिख्यः ख्यातो गजपतिः शुभः ॥ ११० ॥ आलानं स समाभिय महाभैरवनिःस्वनः । निःसार निजावा सादानदुर्दिनितांवरः ॥ १११ ॥ घनाघनघनोदारगंभीरं तस्य गर्जितम् । श्रुत्वा योध्यापुरी याता समुन्मत्त जनेव ॥ ११२ ॥ जनितोदारसंघ द्वैर्भय स्तब्धश्रुतक्षणैः । राजमार्गान्तराः पूर्णाः सायासाधारणैर्गजैः ॥ ११३ 11 यथानुकूलमाश्रित्य दिशो दश महाभयाः । नेश्नुस्ते मदनिर्मुक्ता गृहीतययुरंहसः ॥ ११४ ॥ हेमरत्न महाकूटं गोपुरं गिरिसन्निभम् । विध्वस्य भरतं तेन प्रवृत्तो वारणोत्तमः ॥११५॥
पद्मपुराणम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org