________________
पद्मपुराणम् ।
१३७
व्यशीतितमं पर्व ।
सदा नरेन्द्र कामार्थी चंचलौ दुःखसंगती | विद्वेष्यौ सूरलोकस्य सुमूढजनसेवितौ ॥ ७७ ॥ अशाश्वतेषु भोगेषु सुरलोकसमेष्वपि । हलायुध न मे तृष्णा समुद्रौपम्यवत्स्वपि ॥ ७८ ॥ संसारसागरं घोरं मृत्युपातालसंकुलम् । जन्मकल्लोल संकीर्ण रत्यरत्युरुवीचिकम् ।। ७९ ।। रागद्वेषमहाग्राहं नानादुःखभयंकरम् । व्रतपोतं समारुह्य वांछामि तरितुं नृप ॥ ८० ॥ पुनःपुनरहं राजन् भ्राम्यन्विविधयोनिषु । गर्भवासादिषु श्रांतो दुसहं दुःखमाप्तवान् ॥ ८१ ॥ एवमुक्तं समाकर्ण्य वाष्पव्याकुललेाचनाः । नृपा विस्मयमापन्ना जगदुः कंपितस्वनाः ॥ ८२ ॥ वचनं कुरु तातीयं लोकं पालय पार्थिव । यदितेऽवमता लक्ष्मीर्मुनिः पश्चाद्भविष्यसि ॥ ८३ ॥ उवाच भरतो वाढं तातस्योक्तं मया कृतम् । चिरं प्रपालितो लोको मानितो भोगविस्तरः ||८४|| दत्तं च परमं दानं साधुवर्गः सुतर्पितः । तातेन यत्कृतं कर्तुं तदपीच्छामि सांप्रतम् ॥ ८५ ॥ अनुमोदनमद्यैव मह्यं किं न प्रयच्छत । श्लाघ्ये वस्तुनि संबंध: कर्तव्यो हि यथा तथा ॥ ८६ ॥ जित्वा शत्रुगणं संख्ये द्विपसंघातभीषणे । नंदाद्यैरिव या लक्ष्मीर्भवद्भिः समुपार्जिता ॥ ८७ ॥ महत्यपि न सा तृप्तिं ममोत्पादयितुं क्षमा । गंगेव वारिनाथस्य तत्वमार्गे घटे ततः ॥ ८८ ॥ इत्युक्त्वात्यंतसंविग्नस्तानापृच्छय ससंभ्रमः । सिंहासनात्समुत्तस्थौ भरतो भरतो यथा ॥ ८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org