________________
१३६
पद्मपुराणम्।
ज्यशीतितम पर्व। 'मोहपंकनिमग्नेयं प्रजां मंडकिकायते । लोभाहिनाऽतितीवेण नरकच्छिद्रमायिना ॥ ६४ ॥ एवं चिंतयतस्तस्य भरतस्य विरागिणः । विघ्नेन बहवो यांति दिवसा शांतचेतसः ।। ६५ ॥ व्रतमप्राप्नुवञ्जनं सर्व दुःखविनाशनम् । पंजरस्थो यथा सिंहः स समर्थोपि सीदति ॥ ६६ ॥ प्रशांतहृदयोऽत्यर्थके कयायाचनादसौ । ध्रियते हलिचक्रिभ्यां सस्नेहाभ्यां समुत्कटम् ॥६७ ॥ उच्यते च यथा भ्रातस्त्वमेव पृथिवीतले । सकले स्थापितो राजा पित्रा दीक्षाभिलाषिणा ६८ सोऽभिषिक्तो भवान्नाथो गुरुणा विष्टपेन तु । अस्माकमपि हि स्वामी कुरु लोकस्य पालनम् ६९ इदं सुदर्शन चक्रमिमे विद्याधराधिपाः । तवाज्ञासाधनं पत्नीमिव मुंश्व वसुंधराम् ॥ ७० ॥ धारयामि स्वयं छत्रं शशांकधवलं तव । शत्रुघ्नश्चामरं धत्ते मंत्री लक्ष्मणसुंदरः॥ ७१ ॥ इत्युक्तोऽपि न चेद्वाक्यं ममेदं कुरुते भवान् । यास्यामोऽद्य ततो भूयस्तदेव मृगवदनम् ॥७२॥ जित्वा राक्षसवंशस्य तिलकं रावणाभिधम् । भवदर्शनसाख्यस्य तृषिता वयमागताः॥७३॥ निःप्रत्यूहमिदं राज्यं भुज्यतां तावदायतम् । अस्माभिःसहितः पश्चात्प्रवेक्ष्यसि तपोवनम् ॥७४॥ एवं भाषितुमासक्तमनं पद्मं सुचेतसम् । जगाद भरतोऽत्यंतविषयासक्तिनिःस्पृहः ॥ ७५ ॥ इच्छामि देव संत्यक्तुमेतां राज्यश्रियं द्रुतम् । त्यक्त्वा यां सत्तपः कृत्वा वीरा मोक्षं समाश्रिता ७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org