________________
पद्मपुराणम् ।
१३४
व्यशीतितम पर्व। इति क्षुद्र जनाद्गीतः परिवादः समंततः । सीतायाः कर्मतः पूर्वाद्विस्तारं विष्टपे गतः ।। ३८ ॥ अथासो भरतस्तत्र पुरे स्वग्यत्रपाकरे । सुरेन्द्रसदृशेर्भागेरपि नो विंदते रतिम् ॥ ३९ ॥ स्त्रीणां शतस्य साद्धस्य भत्ता प्राणमहेश्वरः । विद्वेष्टि संततं राज्यं लक्ष्मी तुंगां तथापि ताम ४० निव्यूहबलभी,गप्रघरणाद्यतिहारिभिः । प्रासादमडलीबंधरचितरूपशोभितेः ॥ ४१ ॥ विचित्रमणिनिर्माणकुहिम चारुदीधिक । मुक्तादामचिते हेमखचिते पुष्पितद्रुमे ॥ ४२ ॥ अनेकाश्चर्यसंकीर्णे यथाकाल मनोहर । सर्वशमुरजस्थाने सुंदरीजनसंकुले ॥ ४३ ॥ प्रांतस्थितमदल्किनकपालवरवारणे । बासिते मदगंधेन तुरंगरवहारिणि ।। ४४॥ .. कृतकोमलसंगीते रत्नोद्योतपढाहते । रम्ये क्रीडनकस्थाने रुचिष्ये वर्गिणामपि ॥ ४५ ॥ संसारभीरुरत्यन्तनृपश्चकितमानसः । धृति न लभते व्याधमीरुः सारंगको यथा ॥ ४६ ।। लभ्यं दुःखन मानुष्यं चपलं जलविन्दुवत् । योवनं फेनपुंजेन सदृशं दोपसंकटम् ।। ४७॥ समामिविरसा भोगा जीवितं स्वप्नसंनिभम् । संवत्धो बंधुभिः साई पक्षिसंगमनोपमः ॥ ४८ ।। इति निश्चित्य यो धर्म करोति न शिवावहम् । सजराजर्जरः पश्चाद्दह्यते शोकवह्निना ॥ ४९ ।। योवनेभिनवे रागः कोऽस्मिन् मूढकवल्लभे । अपवादकुलावासे संध्योद्योतविनश्वरे ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org