________________
पद्मपुराणम् ।
१३२
त्र्यशीतितम पर्व । इष्टच्छायकरं स्फीतं छत्रं तारापतिप्रभम् । सुखेन गगने कान्ते पादुके विषमोचिके ॥ १२ ॥ अनघोणि च वस्त्राणि दिव्यान्याभरणानि च । दुर्भेद्यं कवचं कान्तं मणिकुंडलयुग्मकम् ॥ १३ ॥ अमोघाश्च गदा खड्गकनकारिशिलीमुखाः । अन्यानि च महस्त्राणि भासुराणि रणाजिरे ॥१४॥ पंचाशद्धलकोटीनां लक्षाणि गदितानि च । स्वयं लक्ष्मणशीलानां कोटिरम्यधिका गवाम् ॥१५॥ सप्ततिः साधिकाः कोटयः कुलानां स्फीतसंपदाम् । नित्यं न्यायप्रवृत्तानां साकेतानगरीजुषाम् १६ भवनान्यतिशुभ्राणि सर्वाणि विविधानि च । अक्षीणकोशपूर्णानि रत्नवंति कुटुंबिनाम् ॥ १७ ॥ पाल्या बहुविधैर्धान्यैः पूर्णा गंडाद्रिसंनिभाः । विज्ञेयाः कुट्टिमतलाश्चतुःशालाः सुखावहाः॥१८॥ प्रवरोद्यानमध्यस्था नानाकुसुमशोभिताः । दीर्घिकाश्चारुसोपानाः परिक्रीडनकोचिताः ॥ १९ ॥ प्रेक्ष्यगोमहिषीवृंदस्फीतास्तत्र कुटुंबिनः । सौख्येन महता युक्ता रेजुः सुरवरा इव ॥ २० ॥ दंडनायकसामंता लोकपाला इवोदिताः । महेन्द्रतुल्यविभवा राजानः पुरुतेजसः ॥ २१ ॥ सुंदर्योऽप्सरसां तुल्याः संसारसुखभूमयः । निखिलं चोपशरणं यथाभिमतसौख्यदम् ॥ २२ ॥ एवं रामेण भरतं नीतं शोभा परामिदम् । हरिषेणनरेन्द्रेण यथा चक्रभृता पुरा ॥ २३ ॥ चैत्यानि रामदेवेन कारितानि सहस्रशः। भांति भव्यजनैनित्यं पूजितानि महर्द्धिभिः ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org