________________
पद्मपुराणम्।
त्र्यशीतितमं पर्व।
अथ त्र्यशीतितमं पर्व । पुनः प्रणम्य शिरसा पृच्छति श्रेणिको यतिम् । गृहे श्रीविस्तरे तेषां समुद्भुतातिकोतुकः ॥ १ ॥ उवाच गौतमः पाद्माः लाक्ष्मणा भारता नृप । शात्रुनाश्च न शक्यन्ते भोगाः कार्यन शंसितुम् ।। तथाऽपि शृणु ते राजन् वेदयामि समासतः । रामचक्रिप्रभावेण विभवस्य समुद्भवम् ॥ ३ ॥ नंद्यावताख्यसंस्थानं बहुद्वारोचगोपुरम् । शक्रालयसमं कांतं भवनं भवनं श्रियः ॥ ४ ॥ चतुःशाल इति ख्यातः प्राकारोऽस्य विराजते । महाद्रिशिखरोत्तुंगो वैजयंत्यभिधा सभा ॥ ५ ॥ शाला चन्द्रमणी रम्या सुवीथीति प्रकीर्तिता । प्रासाद कूटमत्यन्तमुत्तुंगमवलोकनम् ॥ ६ ॥ प्रेक्षागृहं च विंध्याभं बर्द्धमानककीर्तनम् । परिकर्मोपयुक्तानि कर्मान्तभवनानि च ॥ ७ ॥ कुक्कुटांडप्रभं गर्भगृहकूटं महाद्भुतम् । एकस्तंभधृतं कल्पतरुतुल्यं मनोहरम् ॥ ८ ॥ मंडलेन तदावृत्य देवीनां गृहपालिका । तरंगाली परिख्याता स्थिता रत्नसमुज्ज्वला ॥ ९ ॥ महदंभोजकांडं च विद्युहलसमद्युतिः । सुश्लिष्टा सुभगस्पी शय्या सिंहशिरःस्थिता ॥ १० ॥ उद्यद्भास्करसंकाशमुत्तमं हरिविष्टरम् । चामराणि शशांकांशुसंचयप्रतिमानि च ॥ ११ ॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org