SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । यशीतितमं पर्व । कृतांजलिपुटौ नम्रौ सनपा सांगनाजनौ । मातृणां नेमतुः पादावुपगम्य क्रमेण तौ ॥ ५७ ।। आशीर्वादसहस्राणि यच्छन्त्यः शुभदानि ताः । परिषस्व जिरे पुत्रौ स्वसंवेद्यमिताः सुखम् ५८ पुनः पुनः परिष्वज्य तृप्तिसंबंधवर्जिताः । चुचुंबुमस्तके कंपिकरामर्शनतत्पराः ।। ५९ ॥ आनंदवाष्पपूर्णाक्षाः कृतासनपरिग्रहाः । सुखदुःखं समावेद्य धृति ताः परमां ययुः ॥ ६० ॥ मनोरथसहस्राणि गुणितान्यसकृत्पुरा । तासां श्रेणिक पुण्येन फलितानीप्सिताधिकम् ।। ६१ ॥ सर्वाः शरजनन्यस्ताः साधुभक्ताः सुचेतसः । स्नुपाशतसमाकीर्णा लक्ष्मीविभवसंगताः ॥ ६२ ॥ वीरपुत्रानुभावन निजपुण्योदयेन च । महिमानं परिप्राप्ता गौरवं च सुपूजितम् ।। ६३ ।। क्षारोदसागरांतायां प्रतिघातविवर्जिताः । क्षितावेकातपत्रायां ददुराज्ञां यथेप्सितम् ॥ ६४ ॥ इष्टसमागममेतं शृणोति यः पठति चातिशुद्धमतिः । लभते संपदमिष्टामायुः पूर्ण सुपुण्यं च ६५ एकोऽपि कृतो नियमःप्राप्तोऽभ्युदयं जनस्य सद्बुद्धेः । कुरुते प्रकाशमुच्चै रविवि तस्मादिमं कुरुत ।। इत्यार्प श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे रामलक्ष्मणसमागमाभिधानं नाम द्वथशीतितम पर्व | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy