________________
पद्मपुराणम् ।
१२९
यशीतितमं पर्व । यस्यैषांकगता भाति प्रिया गुणधरा सती । देवी विदेहजा सोऽयं पद्मनाभो महेक्षणः ॥४४॥ निहतः प्रधने येन सुग्रीवाकृतितस्करः । वृत्रदैत्यपतेर्नप्ता स साहसगतिः खलः ॥ ४५ ॥ अयं लक्ष्मीधरो येन शक्रतुल्यपराक्रमः । हतो लंकेश्वरो युद्धे स्वेन चक्रेण वक्षसि ॥ ४६ ॥ सुग्रीवोऽयं महासत्त्वस्तनयोऽस्यायमंगदः । अयं भामंडलाभिख्यः सीतादेव्याः सहोदरः ॥४७॥ देवेन जातमात्रः सन्नासीद्योऽपहृतस्तदा । मुक्तोऽनुकंपया भूयो दृष्टो विद्याधरेंदुना ॥ ४८ ॥ उन्मादेन वने तस्मिन्गृहीत्वा च प्रमोदिना । पुत्रस्तवायमित्युक्त्वा पुष्यवत्यै समर्पितः ।। ४९ ॥ एषोऽसौ दिव्यरत्नात्मकुंडलोद्योतिताननः । विद्याधरमहाधीशो भाति सार्थकशब्दितः ॥५०॥ चंद्रोदरसुतः सोऽयं सखि श्रीमान् विराधितः । श्रीशैलः पवनस्याऽयं पुत्रो वानरकेतनः ॥५१॥ एवं विस्मययुक्ताभिस्तोषिणीभिः समुत्कटाः । लक्षिताः पौरनारीभिः प्राप्तास्ते पार्थिवालयम् ॥ तावत्प्रासादमूर्द्धस्थे पुत्रस्नेहपरायणे । संप्रसुतस्तने वीरमातराववतेरतुः ।। ५३ ॥ महागुणधरा देवी साधुशीलाऽपराजिता । केकयी केकया चापि सुप्रजाश्च सुचेष्टिताः ॥ ५४ ॥ भवांतरसमायोगमिव प्राप्तास्तयोरमा । मातरोऽयुः समीपत्वं मंगलोद्यतचेतसः ॥ ५५ ॥ ततो मातृजनं वीक्ष्य मुदितौ कमलेक्षणौ । पुष्पयानात्समुत्तीर्य लोकपालोपमाती ॥ ५६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org