________________
पद्मपुराणम् ।
१२८
यशीतितमं पर्व |
1
झल्लाम्लातकहक्कानां हैकहुंकारसंगिनाम् । गुंजारटितनान्नां च वादित्राणां महास्वनाः ॥ ३१ ॥ सुकलाः काहला नादा घना हलहलारवाः । भट्टहासास्तुरंगे भसिंहव्याघ्रादिनिस्वनाः ॥ ३२ ॥ वंशस्वनानुगामीनि गीतानि विविधानि च । विनर्दितानि भांडानां वंदिनां पठितानिच ॥ ३३ ॥ संक्रीडितानि रम्याणि रथानां सूर्यतेजसाम् । वसुधाक्षोभघोषाश्च प्रतिशब्दाच कोटिशः || ३४ ॥ एवं विद्याधराधीशैर्विभ्रद्भिः परमां श्रियम् । वृत्तौ विविशतः कांतौ पुरं पद्माभचक्रिणी ।। ३५ ॥ आसन् विद्याधरा देवा इन्द्रौ पद्माभचक्रिणौ । अयोध्यानगरी स्वर्गो वर्णना तंत्र कीदृशी ॥ ३६ ॥ पद्मानननिशानाथं वीक्ष्य लोकमहोदधिः । कलध्वनिर्ययौ वृद्धिमत्या वर्त्तनवेलया ॥ ३७ ॥ विज्ञायमान पुरुषैः पूज्यमानौ पदे पदे । जय वर्द्धस्व जीवेति नंदेति च कृताशिषौ ॥ ३८ ॥ अत्युतुंगविमानाभभवनानां क्षिरः स्थिताः । सुंदर्यस्तौ विलोकंत्यो विकचांभोजलोचनाः ॥ ३९ ॥ संपूर्णचक्रसंकाशं पद्म पद्मनिभेक्षणम् । प्रावृषेण्यघनच्छायं लक्ष्मणं च सुलक्षणम् ॥ ४० ॥ नार्यो निरीक्षितुं शक्ता मुक्ताशेषापरक्रियाः । गवाक्षान्वदनैश्च कुव्यमा भोजवनोपमान् ॥ ४१ ॥ राजन्नन्योन्यसंपर्के निर्भरे सति योषिताम् । सृष्टाऽपूर्वा तदा वृष्टि छिन्नहारैः पयोधरैः ॥ ४२ ॥ च्युतं न पतितं भूमौ कांचीनूपुरकुंडलम् । तासां तद्गतचित्तानां ध्वनयश्चैत्रमुद्गताः ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org