________________
पद्मपुराणम् ।
१२७
हृयशीतितमं पर्व । जानकीवचनं श्रुत्वा दिशश्चालोक्य मंथरम् । क्षणं विभ्रान्तचेतस्को ज्ञात्वा पद्मः स्मिती जगौ ॥ पूरयोध्याप्रिये सेयं नूनं खेचरशिल्पिभिः । अन्येव रचिता भाति जितलंका परद्युतिः ॥ १९ ॥ ततोऽत्युग्रं विहाय स्थं विमानं सहसा परम् । द्वितीयादित्यसंकाशं वीक्ष्य क्षुब्धा नगर्यसौ ॥२०॥ आरुह्य च महानागं भरतः प्राप्तसंभ्रमः विभूयो परया युक्तः शक्रवन्निरगात्पुरः ॥ २१ ॥ तावदेक्षत सवाशाः स्थगिता गगनायनैः । नानायानविमानस्थैर्विचित्रर्द्धिसमन्वितैः ॥ २२ ॥ दृष्ट्वा भरतमायांतं भूमिस्थापितपुष्पको । पद्मलक्ष्मीधरौ यातौ समीपत्वं सुसंमदौ ॥ २३ ॥ समीपौ तावितौ दृष्ट्वा गजादुतीर्यकैकयः । पूजामर्धशतैश्चक्रे तयोः स्नेहादिपूरितैः ॥ २४ ॥ विमानशिखरात्तौ तं निष्क्रम्य प्रीतिनिर्भरम् । केयूरभूषितभुजावग्रजावालिलिंगतुः ॥२५॥ दृष्टा पृष्टौ च कुशलं कृतशंसनसत्कथौ । भरतेन समेतौ तावारूढौ पुष्पकं पुनः ॥ २६ ॥ प्रविशंति ततः सर्वे क्रमेण कृतसत्क्रियाम् । अयोध्यानगरी चित्रपताकाशवलीकृताम् ॥ २७ ॥ संघट्टसंगतैर्यानैर्विमानैर्ययुभी रथैः । अनेकपघटाभिश्च मार्गोऽभूद्वयवकाशकः ॥ २८ ॥ प्रलयजलभृत्तुल्यास्तूर्यघोषाः समुद्ययुः । शङ्खकोटिरवोन्मिश्रा भंभाभेरीमहारवाः ॥ २९ ॥ पटहाना पटीयांसो मुंद्राणां मंद्रता ययुः । लंपानां कंपशंपानां धुंधूनां मधुरा भृशम् ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org