SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १२६ यशीतितम पर्व पद्मस्यांकगता सीता सती गुणसमुत्कटा । लक्ष्मीरिव महाशोभा पुरो न्यस्तेक्षणा जगौ ॥ ५ ॥ जंबूद्वीपतलस्येदं मध्ये नाथ किमीक्ष्यते । अत्यंतमुज्ज्वलं पद्मस्ततोऽभाषत सुंदरी ॥ ६ ॥ देवि यत्र पुरा देवैर्मुनिसुव्रततीर्थकृत् । देवदेवप्रभुल्ये हृष्टै तोऽभिषेचनम् ॥ ७॥ सोऽयं रत्नमयैस्तुंगैः शिखरश्चित्तहारिभिः । विराजते नगाधीशो मंदरो नाम विश्रुतः ॥८॥ अहो वेगादतिक्रांतं विमानं पदवी पराम् । एहि भूयो वलं याम इति गत्वा पुनर्जगौ ॥९॥ एतत्तु दंडकारण्यमिभाभोगमहातमः । लंकानाथेन यत्रस्था हृता त्वं स्वोपघातिना ॥ १० ॥ चारणश्रमणों यत्र त्वया सार्द्ध मया तदा । पारणं लंभिता सैषा सुभगे दृश्यते नदी ॥११॥ सोऽयं सुलोचने भूभवंशोभिख्योऽभिलक्ष्यते । हृष्टौ यत्र मुनी युक्तौ देशगोत्रविभूषणौ ॥ १२ ॥ कृतं मया ययोरासीद्भवत्या लक्ष्मणेन च । प्रातिहार्य ततो यातं केवलं शिवसौख्यदम् ॥ १३ ॥ वालिखिल्यपुरं भद्रे तदेतद्यत्र लक्ष्मणः । प्राप कल्याणमालाख्यां कन्यां कांचिचया समाम् १४ दशांगभोगनगरमदस्तदृश्यते प्रिये । रूपवत्याः पिता वस्रवा यच्छावकः पुरः ॥१५॥ पुनरालोक्य धरणी पुनः पप्रच्छ जानकी । कांतेयं नगरी कस्य खेचरेशस्य दृश्यते ॥ १६ ॥ विमानसदृशै हैरियमत्यंतमुत्कटा । न जातुचिन्मया दृष्टा त्रिविष्टपविडंबिनी ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy