SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ . १२४ पद्मपुराणम् । एकाशीतितमं पर्व । विस्मयादित्यसंपर्कविकचाननपंकजाः । शशंसुर्वनिताः पद्यं कृतदारिद्रयनाशनाः ॥ १११ ॥ आगत्य बहुभिस्तावद्दक्षैः खेचरशिल्पिभिः । रूप्यहेमादिभिर्लेपैर्लिप्ता भवनभूमयः ॥ ११२ ॥ चैत्यागाराणि दिव्यानि जनितान्यतिभूरिशः । महाप्रासादमालाश्च विध्यकूटावलीसमाः॥११३॥ सहस्रस्तंभसंपन्ना मुक्तादामविराजिताः । रचिता मंडपाश्चित्राश्चिनपुस्तोपशोभिताः ॥ ११४ ॥ खचितानि महारत्नद्वाराणि करभस्वरैः । पताकालीसमायुक्तास्तोरणौधाः समुच्छ्रिताः ॥११५॥ अनेकाश्चर्यसंपूर्णा प्रवृत्तसुमहोत्सवा । साथ्योध्या नगरी जाता लंकादिजयकारिणी ॥ ११६ ॥ महेंद्रशिखराभेषु चैत्यगेहेषु संतताः । अभिषेकोत्सवा लग्नाः संगीतध्वनिनादिताः ॥ ११७ ॥ भ्रमरैरुपगीतानि समानि सजलैपनैः । उद्यानानि सुपुष्पाणि जातानि सफलानि च ॥ ११८ ॥ वहिराशास्वशेषासु वनैर्मुदितजंतुभिः । नंदनप्रतिमैर्जाता नगरी सुमनोहरा ॥ ११९ ॥ नवयोजनविस्तारा द्वादशायामसंगता । व्यधिकानि तु षडिशत्परिक्षेपेण पूरसौ ॥ १२० ॥ दिनैः षोडशभिश्चारुनभोगोचरशिल्पिभिः । निर्मिता शंसितुं शक्या न सा वर्षशतैरपि ॥१२१॥ वाप्यः कांचनसोपाना दीर्घिकाश्च सुरोधसः । पद्मादिभिः समाकीर्णा जाता ग्रीष्मेप्यशोषिताः॥ स्नानक्रीडातिसंभोग्यास्तटस्थितजिनालयाः । दधुस्ताः परमां शोमां वृक्षपालीसमावृताः १२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy