________________
पद्मपुराणम् ।
१२३
एकाशीतितमं पर्व ।
रावणं पंचतां प्राप्तं लक्ष्मणेन हतं रणे । दीक्षामिन्द्रजितादीनां वंदिगृहमुपेयुषाम् ॥ ९८ ॥ तार्क्ष्य केसरिद्विद्याप्राप्तिं साधुप्रसादतः । विभीषणमहाप्रीतिं भोगं लंकाप्रवेशनम् ॥ ९९ ॥ एवं पद्माभलक्ष्मीभृदुदयस्तुतिसम्मदी । खक्तांबूल सुगंधाद्यैर्दूतानभ्यर्हयन्नृपः ॥ १०० ॥ गृहीत्वा तांस्तयोर्मात्रोः सकाशं भरतो ययौ । शोकिन्यौ वाष्पपूर्णाक्ष्यौ ते समानंदिते च तैः १०१ पद्माभचक्रभृन्मात्रोर्दूतानां च सुसंकथा । मनःप्रह्लादिनी यावद्वर्त्तते भूतिशंसिनी ॥ १०२ ॥ खेरावृत्त्य पंथानं तावत्तत्र सहस्रशः । हेमरत्नादिसंपूर्णैर्वाहनैरतिगत्वरैः ।। १०३ ॥ विचित्रजलदाकाराः प्रापुर्वैद्याधरा गणाः । जिनावतरणे काले देवा इव महौजसः ॥ १०४ ॥ ततस्ते व्योमपृष्ठस्था नानारत्नमयीं पुरि । वृष्टिं मुमुचुरुद्योतपूरिताशां समंततः ।। १०५ ॥ पूरितायामयोध्यायामेकैकस्य कुटुंबिन: । गृहेषु भूधराकाराः कृता हेमादिराशयः ।। १०६ ।। जन्मांतरकृतश्लाघ्यकर्मा स्वर्गच्युतोऽथवा । लोकोऽयोध्यानिवासी यो येन प्राप्तस्तथा श्रियम् ॥ तस्मिन्नेव पुरे दत्ता घोषणाऽनेन वस्तुना । मणिचामीकराद्येन यो न तृप्तिमुपागतः ॥ १०८ ॥ प्रविश्य स नरः स्त्री वा निर्भयं पार्थिवालयम् । द्रव्येण पूरयित्वाऽऽत्मभवनं निजयेच्छया १०९ श्रुत्वा तां घोषणां सर्वस्तस्यां जनपदो गदत् । अस्माकं भवने शून्यं स्थानमेव न विद्यते ११०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org