________________
पद्मपुराणम् ।
एकाशीतितम पर्व। अयोध्यानगरीं द्रष्टुं मनो मेत्युत्सुकं स्थितम् । साहि माता द्वितीयेव स्मरयत्यधिकं वरा ॥८५|| ततो विभीषणोऽवोचत्स्वामिन्नेवं विधीयताम् । यथाज्ञापयसि स्वांतं देवस्योपैतु शांतताम् ॥८६॥ प्रेष्यते नगरी दूता वाता ज्ञापयितुं शुभाम् । भवतोश्चागमं येन जनन्यौ व्रजतः सुखम् ॥८७॥ त्वया तु षोडशाहानि स्थातुमत्र पुरे विभो । प्रसादो मम कर्त्तव्यः समाश्रितसुवत्सलः ।।८८ ॥ इत्युक्त्वा मस्तकं न्यस्य समणि रामपादयोः । तावद्विभीषणस्तस्थौ यावत्स प्रतिपन्नवान्।।८९॥ अथ प्रासादमूर्धस्था नित्यदक्षिणदिङ्मुखी । दूरतः खेचरान् वीक्ष्य जगादेत्यपराजिता ॥९० ॥ पश्य पश्य सुदूरस्थानेतान् कैकयि खेचरान् । आयातोऽभिमुखानाशु वातेरितघनोपमान् ॥११॥ अद्यते श्राविकेऽवश्यं कथयिष्यंति शोभनाम् । वात्ता संप्रेषिता नूनं सानुजेन सुतेन मे ॥ ९२ ॥ सर्वथैवं भवत्वेतदिति यावत्कथा तयोः । वर्त्तते तावदायाताः समीपं दूतखेचराः ॥ ९३ ॥ उत्सृजंतश्च पुष्पाणि समुत्तीर्य नभस्तलात् । प्रविश्य भवनं ज्ञाताः प्रहृष्टा भरतं ययुः ।। ९४ ॥ राज्ञा प्रमोदिना तेन सन्मानं समुपाहृताः । आशीर्वादप्रसक्तास्ते योग्यासनसमाश्रिताः ॥ ९५ ॥ यथाववृत्तमाचख्युरतिसुंदरचेतसः । पद्माभं बलदेवत्वं प्राप्त लांगललक्ष्मणम् ॥ ९६ ॥ उत्पन्नचक्ररत्नं च लक्ष्मणं हरितामितम् । तयोर्भरतवासस्य स्वामित्वं परमोन्नतम् ॥ ९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org