________________
पद्मपुराणम्।
१२१
एकाशीतितम पर्व । नाहारे शयने रात्रौ न दिवास्ति मनागपि । तस्याः स्वस्थतया योगो भवतोर्विप्रयोगतः ॥७२॥ कुररीव कृतानंदा शावकेन वियोगिनी । उरः शिरश्च सा हंति कराभ्यां विहला भृशम् ॥७३॥ हा लक्ष्मीधर सज्जात जननीमेहि जीवय । द्रुतं वाक्यं प्रयच्छेति विलापं सा निषेवते ॥७४ ॥ तनयायोगतीव्राग्निज्वालालीढशरीरके । दर्शनामृतधाराभिर्मातरौ नयतं समम् ॥ ७५ ॥ एवमुक्तं निशम्यैतौ संजातौ दुःखितौ भृशम् । विमुक्तास्रो समाश्वासं खेचरेशैरुपाहृतौ ॥ ७६ ॥ उवाच वचनं पद्मः कथंचिद्धैर्यमागतः । अहो महोपकारोऽयमस्माकं भवता कृतः ॥ ७७ ॥ विकर्मणः स्मृतेरेव जननी नः परिच्युता । स्मरिता भवता साऽहं किमतोऽन्यन्महत्प्रियम् ।।७८॥ पुण्यवान् स नरो लोके यो मातुर्विनये स्थितः । कुरुते परिशुश्रूषां किंकरत्त्वमुपागतः ॥ ७९ ॥ एवं मातृमहास्नेहरसप्लावितमानसः । अपूजयदवद्धारं लक्ष्मणेन समं नृपः॥८॥ अतिसंभ्रांतचित्तश्च समाहाय विभीषणम् । प्रभामंडलसुग्रीवसन्निधावित्यभाषत ॥ ८१ ॥ महेन्द्रभवनाकारे भवनेस्मिन्विभीषण । तव नो विदितोस्माभिर्यातः कालो महानपि ॥ ८२ ॥ ग्रैष्मादित्यांशुसंतानतापितस्यैव वत्सरः । चिरादवस्थितं चित्ते मातृदर्शनमद्य मे ॥ ८३ ॥ स्मृतमात्रवियोगाग्नितापिन्यतिमात्रकम् । तदर्शनांबुनांगानि प्रापयाम्यतिनिर्वृतिम् ॥ ८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org