________________
१२०
पद्मपुराणम् ।
एकाशीतितम पर्व। पद्माभं दुरतो दृष्ट्वा सहसोभ्रांतमानसः । अब्रह्मण्यमिति स्फीतं प्रस्वेदी मुमुचे स्वरम् ।। ५९ ॥ श्रुत्वा तस्य वं दत्त्वा दृष्टिं लक्ष्मणपूर्वजः । अवद्धारं परिज्ञाय स्वयमाहादरान्वितः ॥ ६ ॥ मुंचध्वमाशु मुंचध्वमेतमित्युज्झितश्च सः । पद्माभस्यांतिकं गत्वा प्रहृष्टोऽवस्थितः पुरः॥६१ ॥ स्वस्त्याशीभिः समानंद्य पद्मनारायणावृषिः । परित्यक्तपरित्रासः स्थितो दत्ते सुखासने ॥२॥ पद्मनाभस्ततोऽवोचत्सोऽवद्धारगतिभेवान् । क्षुल्लकोऽभ्यागतः कस्मादुक्तश्च स जगौ क्रमात् ६३ व्यसनार्णवमनाया जनन्या भवतोऽतिकात् । प्राप्तोऽस्मि वेदितुं वार्ता त्वत्पादकमलांतिकम्॥६४॥ मान्यापराजिता देवी भव्या भगवती तव । माताऽश्रुधौतवदना दुःखमास्ते त्वया विना ॥६५॥ सिंही किशोररूपेण रहितेव समाकुला । विकीर्णकेशसंभारा कृतकुट्टिमलोठना ॥ ६६ ॥ विलापं कुरुते देव तादृशं येन तत्क्षणम् । मन्ये संजायते व्यक्तं दृषदामपि मादेवम् ॥ ६७॥ तिष्ठति त्वयि सन्पुत्रे कथं तनयवत्सला । महागुणधरी स्तुत्या कृच्छ्रे सा परमं गता ॥ ६८ ॥ अद्यश्वीनमिदं मन्ये तस्याः प्राणविवर्जनम् । यदि तां नेक्षसे शुष्कां त्वद्वियोगोरुभानुना ॥६९॥ प्रसादं कुरुतां पश्य व्रजोत्तिष्ठ किमास्यते । एतस्मिन्ननु संसारे बंधुर्माता प्रधानतः ॥ ७० ॥ वायमेव कैकय्या अपि दुःखेन वर्तते । तया हि कुट्टिमतलं कृतमभ्रेण पल्बलम् ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org