SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकाशीतितम पर्व। पद्मलक्ष्मणवार्तायाः प्रश्ने दोषोऽभिलक्ष्यते । पृच्छतो दशवक्त्रं तु स्फीतमार्गो न दृश्यते ॥४६॥ अनेनैवानुपूर्येण वार्ता ज्ञास्ये मनीषिताम् । इति ध्यात्वा सुविश्रब्धो गतः पद्मसरो यतः॥४७॥ तस्यां च तत्र वेलायामन्तःपुरसमन्वितः । तारायास्तनयः क्रीडां कुरुते चारुविभ्रमः ॥४८॥ तटस्थं पुरुषं तस्य कृतपूर्वप्रियोदितः । कुशलं रावणस्येति पप्रच्छावस्थितः क्षणम् ॥ ४९ ॥ श्रुत्वा तद्वचनं क्रुद्धाः किंकराः स्फुरिताधराः । जगदुःकथमेव त्वं दुष्टं तापस भाषसे ॥ ५० ॥ कुतो रावणवर्गीणो मुनिखेटस्त्वमागतः । इत्युक्त्वा परिवार्यासावंगदस्यांतिकीकृतः ॥ ५१ ॥ कुशलं रावणस्यायं पृच्छतीत्युदिते भटैः। न कार्य दशवक्त्रेण ममेति मुनिरभ्यधात् ॥ ५२ ॥ तैरुक्तं यद्यदः सत्यं तस्य कस्मात्प्रमोदवान् । कुशलोदंतसंप्रश्नो वर्तसे परमादरः ॥५३॥ ततोऽगदः प्रहस्योचे व्रजतेनं कुतापसम् । दुरीहं पद्मनाभाय मूढं दर्शयत द्रुतम् ॥ ५४॥ पृष्ठतः प्रेर्यमाणोऽसौ वाहाकर्षणतत्परैः । सुकष्टं नीयमानस्तैरिति चिंतामुपागतः ॥ ५५ ॥ बहवः पद्मनाभाख्याः संत्यत्र वसुधातले । न जाने कतमः स स्यानीये यस्याहमंतिकम् ॥५६।। अर्हच्छासनवात्सल्या देवता मम तायनम् । काचित्कुर्वीत किं नाम पतितोऽस्त्यतिसंशये॥५७॥ शिखांतिकगतप्राणो नारदः पुरुवेपथुः । विभीषणगृहद्वारं प्रविष्टः सद्गुहाकृतिम् ॥ ५८॥ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy