________________
पद्मपुराणम् । - ११८
एकाशीतितम पर्व । हा हा पुत्र गतः क्वासि चिरमेहि प्रयच्छ मे । वचनं कुरु साधारं भनायाः शोकसागरे ॥३३॥ पुण्योज्झिता त्वदीयास्यमपश्यंती सुजातक । तीव्रदुःखानलालीढा हतं मन्ये स्वजीवितम् ॥३४॥ बंदिग्रहं समानीता राजपुत्री सुखैधिता । बाला वनमृगीमुग्धा सीता दुःखेन तिष्ठति ।। ३५ ॥ निघृणेन दशास्येन शक्त्या लक्ष्मणसुंदरः । ताडितो जीवितं धत्ते नेति वार्ता न विद्यते ॥३६॥ हा सुदुर्लभको पुत्रौ हा सीते सति बालिके । प्राप्तासि जलधर्मध्ये कथं दुःखमिदं परम् ॥३७॥ तं वृत्तातं ततो ज्ञात्वा वीणां क्षिप्त्वा महीतले । उद्विग्नो नारदस्तस्थौ हस्तावाघाय मस्तके ३८ क्षणनिष्कंपदेहश्च विमृश्य बहुवीक्षितः । अब्रवीदेवि नो सम्यग्वृत्तमेतद्विभाति मे ॥ ३९॥ त्रिखंडाधिपतिश्चंडो विद्याधरमहेश्वरः । वैदेहकपिनाथाभ्यां रावणः किं प्रकोपितः ॥४०॥ तथापि कौशले शोकं मा कृथाः परमं शुभे । अचिरादेष ते वार्तामानयामि न संशयः ॥४१॥ कृत्यं विधातुमेतावद्देवि सामर्थ्य मस्ति मे । शक्तः स एव शेषस्य कार्यस्य तव नंदनः ॥ ४२ ॥ प्रतिज्ञामेवमादाय नारदःखं समुद्गतः । वीणां कक्षांतरे कृत्वा सखीमिव परां प्रियाम् ॥ ४३ ।। ततो वातगतिः क्षोणी पश्यन्दुर्लक्ष्यपर्वताम् । लंकां प्रतिकृताशंको नारदश्वक्रितं ययौ ॥४४॥ समीपीभूय लंकायाश्चितामेवमुपागतः । कथं वा परिज्ञानं करोमि निरुपायकम् ॥ ४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org