________________
पद्मपुराणम्।
११७
एकाशीतितमं पर्व। कथं वार्तामपीदानीं त्वं नोपलभसे गुरुः । अतिदूरादिवायातः कुतोऽपि भ्रमणप्रियः ॥ २० ॥ तेनोक्तं धातकीखंडे सुरेन्द्ररमणे पुरे । विदेहेऽजनि पूर्वस्मिस्त्रैलोक्यपरमेश्वरः ॥ २१ ॥ । मंदरे तस्य देवेंद्रैः सुरासुरसमन्वितः । दिव्ययाऽद्धतया भूत्या जननाभिषवः कृतः ॥ २२॥ तस्य. देवाधिदेवस्य सर्वपापप्रणाशनः । अभिषेको मया दृष्टः पुण्यकर्मप्रवर्द्धकः ॥ २३ ॥ आनंद ननृतस्तत्र देवाः प्रमुदिताः परम् । विद्याधराश्च विभ्राणा विभूतिमति शोभनाम् ॥२४॥ जिनेंद्रदर्शनासक्तस्तस्मिन्नतिमनोहरे । त्रयोविंशतिवर्षाणि द्वीपेऽहमुषितः सुखम् ॥२५॥ तथापि जननीतुल्यां संस्मृत्य भरतक्षितिम् । महाधृतिकरीमेष प्राप्तोऽहं चिरसेविताम् ॥ २६ ॥ जंबूभरतमागत्य व्रजाम्यद्यापि न क्वचित् । भवती द्रष्टुमायातो वा ज्ञानपिपासितः ॥ २७ ॥ ततोऽपराजितावादीद्यथावृत्तमशेषतः । सर्वप्राणिहिताचार्यस्यागतिं गणधारिणः ॥ २८ ॥ वैदेहस्य समायोग महाविद्याधरप्रभोः । दशस्यदनराजस्य प्रव्रज्या पार्थिवैः समम् ॥ २९ ॥ सीतालक्ष्मणयुक्तस्य पद्मनाभस्य निर्गमम् । वियोग सीतया साकं सुग्रीवादिसमागमम् ॥ ३०॥ लक्ष्मणं समरे शक्त्या लंकानाथेन ताडितम् । द्रोणमेघस्य कन्याया नयनं त्वरयान्वितम् ॥३१॥ इत्युक्त्वाऽनुस्मृतात्यंततीव्रदुःखपरायणा । अधुधारां विमुंचंती सा पुनः पर्यदेवत ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org