________________
पद्मपुराणम् ।
एकाशीतितम पर्व ।
हा वत्सक क्व यातोगसि सततं सुखलालितः । विदेशभ्रमणे प्रीतिस्तव केयं समुद्गता ॥ ७ ॥ पादपल्लवयोः पीडां प्राप्नोषि परुषे पथि । विश्रमिष्यसि कस्याऽधो गहनस्योत्कटश्रमः ॥ ८॥ मंदभाग्यां परित्यज्य मकामत्यर्थदुःखिताम् । यातोऽसि कतमामाशां भ्रातृ पुत्रकसंगतः ॥९॥ परिवेदनमारेभे सा कर्तुं चैवमादिकम् । देवर्षिश्च परिप्राप्तो गगनांगणगोचरः ॥ १० ॥ जटाकूर्चधरः शुक्लवस्त्रमावृतविग्रहः । अवद्धारगुणाभिख्यो नारदः क्षितिविश्रुतः ॥ ११ ॥ तं समीपस्थमायातमभ्युत्थायापराजिता । आसनाद्युपचारेण सादरं सममानयत् ॥ १२ ॥ सिद्धयोगमुनिदृष्ट्वा तामश्रुतरलेक्षणाम् । आकारसूचितोदारशोकां संपरिपृष्टवान् ॥ १३ ॥ कुतः प्राप्तासि कल्याणि विमाननमिदं यतः । रुद्यते न तु संभाव्यं तब दुःखस्य कारणम् १४ सुकोशलमहाराजदुहिता लोकविश्रुता । श्लाघ्याऽपराजिताभिख्या पत्नी दशरथश्रुतेः॥ १५ ॥ पद्मनाभनृरत्नस्य प्रसवित्री सुलक्षणा । येन त्वं कोपिता मान्या देवतेव हतात्मना ॥ १६ ॥ अद्यैव कुरुते तस्य प्रतापाक्रांतविष्टपः । नृपो दशरथः श्रीमान्निग्रहं प्राणहारिणम् ॥ १७ ॥ उवाच नारदं देवी स त्वं चिरतरागतः । देवर्षे वेत्सि वृत्तांत नेमं येनेति भाषसे ॥ १८ ॥ अन्य एवासि संवृत्तो वात्सल्यं तत्पुरातनम् । कुतो विशिथिलीभूतं लक्ष्यते निष्ठुरस्य ते ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org