________________
पद्मपुराणम् ।
११३
अशीतितम पर्व। वज्रस्तंभसमानस्य प्रतिमास्थानमीयुषः । महालब्धेः समीपस्य पादयोस्तमतिष्ठिपत् ।। १८१ ॥ पादौ मुनेः परामृष्य पत्युर्गानं समापृशत् । देवी ततः परिप्राप्तः सिहेंदुर्जीवितं पुनः ॥ १८२ ॥ चैत्यस्य वंदनां कृत्वा भक्क्या केसरिचंद्रमाः। प्रणनाम मुनि भूयो भूयो दयितया समम् १८३ उद्गते भास्करे साधुः समाप्तनियमोऽभवत् । प्राप्तो विनयदत्तस्तं वंदनार्थमुपासकः ॥ १८४ ।। संदेशाच्छावको गत्वा पुरं श्रीवर्द्धितायतम् । सिंहदुं प्राप्तमाचख्यौ श्रुत्वा सन्न मुद्यतः ॥ १८५॥ ततो यथावदाख्याते प्रीतिसंगतमानसः । महोपचारशमुष्या स्याल श्रीवर्द्धितोऽगमत् ।। १८६॥ ततो वंधुसमायोगं प्राप्तः परमसंमदः । श्रीवर्द्धितः सुखासीनं पप्रच्छेति मयं नतः ॥ १८७ ॥ भगवन् ज्ञातुमिच्छामि पूर्वकं जन्ममात्मनः (2)। स्वजनानां च सत्साधुस्ततो वचनमब्रवीत् १८८ आसीच्छोभपुरे नाम्ना भद्राचार्यों दिगंबरः । अमलाख्यः पुरस्यास्य स्वामी गुणसमुत्करः १८९ स तं प्रत्यहमाचार्य सेवितुं याति सन्मनाः । अन्यदा गंधमाजघौ देशे तत्र सुदुःसहम् ॥१९॥ स तं गंधं समाघ्राय कुष्टिन्यंगसमुद्गतम् । पद्भयामेव निजं गेहं गतोऽसहनको द्रुतम् ॥ १९१ ॥ अन्यतः कुष्टिनी सा तु प्राप्ता चैत्यांतिके तदा । विश्रांताऽऽसीद्वणेभ्योऽस्या दुर्गधोऽसौ विनिर्थयौ।। अणुव्रतानि सा प्राप्य भद्राचार्यसकाशतः । देवलोकं गता च्युत्वाऽसौ कांता शीलवत्यभूत् १९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org