________________
पद्मपुराणम् ।
अशीतितम पर्व। यस्त्वसावमलो राजा पुत्रन्यस्तनपक्रियः । संतुष्टः सोऽष्टभिमैः श्रावकत्वमुपाचरत् ॥ १९४ ॥ देवलोकमसौ गत्वा च्युतः श्रीवर्द्धितोऽभवत् । अधुना पूर्वकं जन्म मातुस्तक वदाम्यहम् ॥१९५॥ एको वैदेशिको भ्राम्यन्प्रामं क्षुद्वयाधितोऽविशत् । स भोजनगृहे भुक्तिमलब्ध्वा कोपसंगतः १९६ सर्व ग्राम दहामीति निगद्य कटुकः स्वरम् । निष्क्रांतः सृष्टितोऽसौ च ग्रामः प्राप्तः प्रदीपनम् । ग्राम्यैरानीय संक्रुद्धः क्षिप्तोऽसौ तत्र पावके । मृतो दुःखेन संभूतः सूपकारी नृपालये ॥ १९८ ॥ ततो मृता परिप्राप्ता नरकं घोरवेदनम् । तस्मादुत्तीर्य माताऽभूत्तव मित्रयक्षोभिधा ॥ १९९ ॥ बभूव पोदनस्थाने नाम्ना गोवाणिजो महान् । भुजपत्रेति तद्भायो सोकांतिः सोभवन्मृतः २०० भुजपत्रापि जाताऽस्य कामिनी रतिवर्द्धनी । पीडनाद्गर्दभादीनां पुरा भारं च वाहितौ ॥२०१॥ एवमुक्त्वा मयो व्योम भासयन् स्वेप्सितं ययौ । श्रीवर्द्धितोऽपि नगरं प्राप्तवंधुसमागमः ॥२०२॥ पूर्वभाग्योदयाद्राजन् संसारे चित्रकर्मणि । राज्यं कश्चिदवाप्नोति प्राप्तं नश्यति कस्यचित् २०३ अप्येकस्माद्गुरोः प्राप्य जंतूनां धर्मसंगतिः । निदाननिर्निदानाभ्यां मरणाभ्यां पृथग्गतिः २०४ उत्तरंत्युदधिं केचिद्रत्नपूर्णः सुखान्विताः । मध्ये केचिद्विशीर्यते तटे केचिद्धनाधिपाः ।। २०५॥ इति ज्ञात्वाऽऽत्मनः श्रेयः सदा कार्य मनीषिभिः । दयादमतपःशुद्धया विनयेनागमेन वा २०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org