________________
पद्मपुराणम् ।
११२
अशीतितम पर्व ।
हेमांकस्य गृहे तस्य नाना मित्रयशाः सती । अमोघशरसंज्ञस्य भार्गवस्य प्रियाऽवसत् ॥१६८॥ विधवा दुःखिनी तस्मिन्बसंती भवने सुतम् । अशिक्षयदसावेवं स्मृतभर्तृगुणोत्करा ॥ १६९ ॥ सुनिश्चितात्मना येन बाल्ये विद्यागमः कृतः । हेमांकस्य द्युतिं तस्य विदुषः पश्य पुत्रका१७०॥ शरविज्ञाननिधृतसवेभागेवसंपदः । पितुस्तथाविधस्य त्वं तनयो वालिशो भव ॥ १७१ ॥ वाष्पविप्लुतनेत्रायाः श्रुत्वा मातुर्वचस्तदा । प्रशाम्यतां गतो विद्यां शिक्षितुं सोऽभिमानवान् ॥ ततो व्याघ्रपुरे सर्वाः कलाः प्राप्य गुरोग्रॅहे । तत्प्रदेशसुकांतस्य सुतां हृत्वा विनिर्गतः ॥१३॥ तस्याः शीलाभिधानायाः कन्यकाया सहोदरः । सिंहेदुरिति नियोतो युद्धार्थी पुरविक्रमः॥१७४॥ एकको बलसंपन्न जित्वा सिंहेंदुमाहवे । श्रीवर्द्धितोऽन्वितो मात्रा संप्राप्तः परमां धृतिम् ॥१७५॥ महाविज्ञानयुक्तेन तेन प्रख्यातकीर्तिना । लब्धं कररुहाद्राज्यं नगर पोदनाढये ॥ १७६ ॥ सुकांते पंचतां प्राप्त सिंहेदुर्घतिशत्रुणा । अभिभूतः समं देव्या निरैदेहात्सुरंगया ॥ १७७॥ संभ्रांतः शरणं गच्छन् भगिनी खेदवान्भृशम् । प्राप्तस्तांबूलिकैर्भारं वाहितः सह भार्यया ।।१७८॥ भानावस्तंगतेऽभ्यासं पोदनस्य स संगतः । मुक्तो राजन भटै रात्री त्रासितो गहनं श्रित: १७९ महोरगेण संदष्टस्तं देवी परिदेवनी । कृत्वा स्कधे परिप्राप्ता देशं यत्र मयः स्थितः ॥ १८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org