________________
१०९
पद्मपुराणम्।
अशीतितम पर्व । तयोरनंतरं सम्यग्दर्शनज्ञानचेष्टितः । शुक्ललेश्याविशुद्धात्मा कलशश्रमणो मुनिः ॥ १२९ ॥ पश्यंल्लोकमलोकं च केवलेन तथाविधम् । विरजस्कः परिप्राप्तः परमं पदमच्युतम् ॥ १३०॥ सुरासुरजनाधीशैरुद्गीतोत्तमकीत्तेयः । शुद्धशीलधरा दीप्ताः प्रणताश्च महर्षयः ॥ १३१ ॥ गोष्पदीकृतनिःशेषगहनज्ञेयतेजसः । संसारक्लेशदुर्मोचजालबंधननिर्गताः ॥ १३२ ॥ अपुनःपतनस्थानसंप्राप्तिस्वार्थसंगताः । उपमानविनिमुक्तनिष्प्रत्यूहसुखात्मकाः ॥ १३३ ॥ एतेऽन्ये च महात्मानः सिद्धा निर्धतशत्रवः । दिशंतु बोधिमारोग्यं श्रोतृणां जिनशासने १३४ यशसा परिवीतान्यद्यत्वेऽपि परमात्मनाम् । स्थानानि तानि दृश्यते दृश्यते साधवो न ते १३५ विध्यारण्यमहास्थल्या सार्द्धमिन्द्रजितो यतः । मेघनादस्थितस्तेन तीर्थ मेघरवं स्मृतम् ॥ १३६॥ तूणीगतिमहाशैले नानाद्रुमलताकुले । नानापक्षिगणाकीर्णे नानाश्वापदसेविते ।। १३७ ॥ परिप्राप्तोऽहमिन्द्रत्वं जंबुमाली महाबलः । अहिंसादिगुणाढ्यस्य किमु धर्मस्य दुष्करम् ॥१३८॥ ऐरावतेवतीर्यासौ महाव्रतविभूषणः । कैवल्यतेजसा युक्तः सिद्धस्थानं गमिष्यति ॥ १३९ ॥ अरजा निस्तमो योगी कुंभकर्णो महामुनिः । निवृत्तो नर्मदातीरे तत्तीर्थ पिठरक्षतम् ॥ १४०॥ नभोविचारिणीं पूर्व लब्धि प्राप्य महाद्युतिः । मयो विहरणं चक्रे स्वेच्छं निर्वाणभूमिषु ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org