________________
पद्मपुराणम् ।
११०
अशीतितम पर्व।
प्रदेशानृपभादीनां देवागमनसेवितान् । महाधृतिपरोऽपश्यद्रत्नत्रितयमंडनः ॥ १४२ ॥ मारीचः कल्पवासित्वं प्राप्याऽन्ये च महर्षयः । सत्वं यथाविधं यस्य फलं तस्य तथाविधम् ।। वैदेह्याः पश्य माहात्म्यं दृढव्रतसमुद्भवम् । यथा संपालितं शीलं द्विषंतश्च विवर्जिताः॥१४४ ॥ सीताया अतुलं धैर्य रूपं सुभगता मतिः । कल्याणगुणपूर्णायाः स्नेहबंधश्च भर्तरि ॥ १४५ ॥ शीलतः स्वर्गगामिन्या स्वभर्तृपरितुष्टया । चरितं रामदेवस्य सीतया साधु भूषितम् ।। १४६ ॥ एकेन व्रतरत्नेन पुरुषांतरवर्जिना । स्वर्गारोहणसामर्थ्य योषितामपि विद्यते ॥ १४७॥ मयोऽपि मायया तीवः कृत्वा प्राणिवधान बहून् । प्रपद्य वीतरागत्वं प्राप लब्धीः सुसंयतः ॥ उवाच श्रेणिको नाथ ! श्रुतमिन्द्रजितादिजम् । माहात्म्यमधुना श्रोतुं वांछामि मयसंभवम् १४९ संत्यन्याः शीलवत्यश्च नृणां वसुमतीतले । स्वभर्तृनिरतात्मानस्ता नु किं स्वर्गताविताः॥१५०॥ गण्यूचे यदि सीताया निश्चयेन व्रतेन च । तुल्याः पतिव्रताः स्वर्ग जंत्येव गुणान्विताः १५१ सुकृतासुकृतास्वादनिस्पंदीकृतवृत्तयः । शीलवत्यः समा राजन्ननु सर्वा विचेष्टितैः ॥ १५२॥ वीरुदाश्वेभलोहानामुपलद्रुमवाससाम् । योषितां पुरुषाणां च विशेषोऽस्ति महानृपः॥ १५३ ।। न हि चित्रभृतं वल्ल्यां वल्ल्यां कूष्मांडमेव वा । एवं न सर्वनारीषु सद्वृत्तं नृप विद्यते॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org