________________
१०७
पद्मपुराणम् ।
अशीतितमं पर्व। विशल्यासुंदरीयुक्तस्तथा नारायणो रतिम् । जगाम चिंतितप्राप्तसर्ववस्तुसमागमः ॥ १०३ ॥ याताः स्मः स्व इति स्वांतं कृत्वापि पुनरुत्तमाम् । संप्राप्य रतिमेतेषां गमनं स्मृतितश्युतम् १०४ तयोर्बहूनि वर्षाणि रतिभोगोपयुक्तयोः । गतान्येकदिनौपम्यं भजमानानि सौख्यतः ॥ १०५ ॥ कदाचिदथ संस्मृत्य लक्ष्मणश्चारुलक्षणः । पुराणि कूबरादीनि प्रजिघाय विराधितम् ॥१०६ ।। साभिज्ञानानसो लेखानुपादाय महर्द्धिकः । कन्याभ्योऽदर्शयद्गत्वा क्रमेण विधिकोविदः॥१०७॥ संवादजनितानंदाः पितृभ्यामनुमोदिताः । आजग्मुरनुरूपेण परिवारेण संगताः ॥ १०८ ॥ देशांगभोगनगरस्वामिनः कुलिशश्रुते । प्राप्ता रूपवती नाम कन्या रूपवती परा ॥ १०९॥ कूबरस्थाननाथस्य वालिखिल्यस्य देहजा । सर्वकल्याणमालाख्या प्राप्ता परमसुंदरी ॥ ११ ॥ पृथिवीपुरनाथस्य पृथिवीधरभूभृतः । प्रथिता वनमालेति दुहिता समुपागता ॥ १११ ॥ क्षेमांजलिपुरेशस्य जितशत्रोमहीक्षितः । जितपति विख्याता तनया समुपागमत् ।। ११२ ॥ उज्जयिन्यादितोऽप्येता नगराद्राजकन्यकाः । जन्मांतरकृतात्पुण्यात्परमात्पतिमीदृशम् ॥ ११३॥ दमदानदयायुक्तं शीलाढ्यं गुरुसाक्षिकम् । नघुत्तमं तपोऽकृत्वा प्राप्यते पतिरीदृशः ।। ११४ ।। नूनं नास्तमिते भानौ भुक्तं साध्वी न दूषिता । विमानिता न दिग्वस्खा जातोऽयं पतिरीदृशः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org