________________
पद्मपुराणम् ।
१०६
अशीतितम पर्व।
एवं विभीषणाधारगुणग्रहणतत्परः । विद्याधरजनस्तस्थौ सुखं मत्सरवर्जितः ॥९॥ पालक्ष्मणवैदेहीविभीषणकथागतः । पौरलोकः समस्तोऽभूत्परित्यक्तान्यसंकथः ।। ९१ ॥ संप्राप्तबलदेवत्वं पद्मं लांगललक्षणम् । नारायणं च संप्राप्तचक्ररत्नं नरेश्वरम् ॥ ९२ ॥ अभिषेक्तुं समासक्ता विभीषणपुरसराः । सर्वविद्याधराधीशा विनयेन हुढौकिरे ॥ ९३ ॥ ऊचतुस्तौ गुरोःपूर्वमभिषेकमवाप्तवान् । प्रभुमेरत एवाऽऽस्तेऽयोध्यायां व स एव नौ ॥ ९४ ॥ उक्तं तैरेवमेवैतत्तथाप्यभिषवेत्र कः । मंगले दृश्यते दोषो महापुरुषसेविते ॥ ९५ ॥ क्रियमाणामसौ पूजां भवतोरनुमन्यते । श्रूयतेऽत्यंतधीरोऽसौ मनसो नैति विक्रियाम् ।। ९६ ॥ वस्तुतो बलदेवत्वचक्रित्वप्राप्तिकारणात् । संप्रतिष्ठा तयोरासीत्पूजा संभारसंगता ॥ ९७ ॥ एवमत्युन्नतां लक्ष्मी संप्राप्तौ रामलक्ष्मणौ । लंकायामृचतुःस्वर्गनगयों त्रिदशाविव ।। ९८॥ पुरे तत्रंद्रनगरप्रतिमे स्फीतभोगदे । नदीसरस्तटायेषु देशेष्वस्थुनभश्वराः ॥ ९९ ॥ विद्यालंकारतांबूलवस्त्रहारविलेपनाः । चिक्रीडस्तत्र ते स्वेच्छं सस्त्रीकाः स्वर्गिणो यथा ॥१०॥ दिनरत्नकरालीढसितपद्मांतरद्युतिः । वैदेहीवदनं पश्यन्पग्रस्तृप्तिमियाय न ॥ १०१॥ विरामरहितं रामस्तयात्यंताभिरामया । रामया सहितो रेमे रमणीयासु भूमिषु ॥ १०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org