________________
पद्मपुराणम् ।
१०५
अशीतितमं पर्व ।
तेषां प्रत्यवसानार्थी कार्या विस्तारिणी कथा । घृताद्यैः पूरिता वाप्यः सद्भक्ष्यैः पर्वताकृताः ७७ वनेषु नंदनाद्येषु वस्तुजातं यदुद्गतम् । मनोघ्राणेक्षणाभीष्टं तत्कृतं भोजनावनौ ॥ ७८ ॥ मृष्टमन्नं स्वभावेन जानक्या तु समंततः । कथं वर्णयितुं शक्यं पद्मनाभस्य चेतसः ॥ ७९ ॥ पंचानामर्थयुक्तत्वमिन्द्रियाणां तदेव हि । यदाभीष्टसमायोगे जायते कृतनिर्वृतिः ॥ ८० ॥ तदा भुक्तं तदा घातं तदा स्पृष्टं तदेक्षितम् । तदा श्रुतं यदा जंतोर्जायते प्रिय संगमः ॥ ८१ ॥ विषयः स्वर्गतुल्योsपि विरहे नरकायते । स्वर्गीयते महारण्यमपि प्रियसमागमे ॥ ८२ ॥ रसायनरसैः कांतरद्भुतैर्बहुवर्णकैः । भक्ष्यैश्च विविधैस्तेषां निवृत्ता भोजनक्रिया ॥ ८३ ॥ खेचरेंद्रा यथायोग्यं कृतभूमिनिवेशनाः । भोजिता कृतसन्मानाः परिवारसमन्विताः ॥ ८४ ॥ चंदनाद्यैः कृताः सर्वैर्गेधै बद्धपदपदैः । भद्रशोभाद्यरण्योत्थैः कुसुमैश्च विभूषिताः ।। ८५ । स्पर्शानुकूललघुभिर्वस्त्रैर्युक्ता महाधनैः । नानारत्नप्रभाजालकरालितदिगाननाः ॥ ८६ ॥ सर्वे संभाविताः सर्वे फलयुक्तमनोरथाः । दिवा रात्रौ च चित्राभिः कथाभी रतिमागताः ॥८७॥ अहो राक्षसवंशस्य भूषणोऽयं विभीषणः । अनुवृत्तिरियं येन कृतेदृक्पद्मचक्रिणोः ॥ ८८ ।। महानुभावोऽयं जगत्युत्तुंगतां यतः । कृतार्थो भवने यस्य स्थितः पद्मः सलक्ष्मणः ॥८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org