SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । अशीतितमं पर्व । प्रांतावस्थितहालीपरिवारमनोहरम् । शेषपर्तवमध्यस्थं मंदरौपम्यमागतम् ॥ ६४ ॥ हेमस्तंभसहस्रेण धृतमुत्तममासुरम् । पूजितायामाविस्तारं नानामणिगणार्चितम् ।। ६५ ॥ बहुरूपधरैर्युक्तं चंद्राभैबलभीपुटैः । गवाक्षप्रांतसंशक्तैर्मुक्ताजालैविरार्जितम् ।। ६६ ॥ अनेकाद्भुतसंकीणयुक्तैः प्रतिसरादिभिः । प्रदेशैर्विविधैः कांतं पापप्रमथनं परम् ॥ ६७॥ एवंविधे गृहे तस्मिन्पद्मरागमयीं प्रभोः । पद्मप्रभजिनेंद्रस्य प्रतिमा प्रतिमोज्झिताम् ॥ ६८ ॥ भासमंभोजखंडानां दिशंती मणिभूमिषु । स्तुत्वा च परिवंदित्वा यथाऽहं समवस्थिताः ॥६९॥ यथायथं ततो याता खेचरेन्द्रा निरूपितम् । समाश्रयं बलं चित्ते विभ्राणाश्चक्रिणां तथा ॥७॥ अथ विद्याधरस्त्रीभिः पद्मलक्ष्मणयोः पृथक् । सीनायाश्च शरीरस्य क्रियायोगः प्रवर्तितः ॥७॥ अक्तासुगंधिभिः पथ्यैः स्नेहः पूर्णमनोहरैः । घ्राणदेहानुकूलैश्च शुभैरुद्वतनैः कृतः॥ ७२ ।।। स्थितानां स्नानपीठेषु प्राङ्मुखानां सुमंगलः । ऋद्धया स्नानविधिस्तेषां क्रमयुक्तःप्रवर्तितः ७३ वपुःकषणपानीयविसर्जनलयान्वितम् । हारि प्रवृत्तमातोद्यं सर्वोपकरणाश्रितम् ॥ ७४ ॥ हेमैरिकतैर्वत्रैः स्फाटिकैरिन्दुनीलजैः । कुभैगंधोदकापूर्णैः स्नानं तेषां समापितम् ।।७५ ॥ पवित्रवस्त्रसंवीताः सुस्नाताः सदलंकताः । प्रविश्य चैत्यभवनं पद्माभं ते ववन्दिरे ॥ ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy