SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । अशीतितमं पर्व। एवमादि पठन् स्तोत्रं पद्मः पनायतेक्षणः । चैत्यं प्रदक्षिणं चक्रे दक्षिणः पुण्यकर्मणि ॥ २५ ॥ प्रहांगा पृष्ठतस्तस्य जानकी स्तुतितत्परा । समाहितकरांभोजकुड्मला भाविनी स्थिता ॥२६ ।। महादुंदुभिनिर्घोषप्रतिमे रामनिस्वने । जानकीस्वनितं जज्ञे वीणानिःकणकोमलम् ॥ २७ ॥ सविशल्यस्ततश्चक्री सुग्रीवो रश्मिमंडलः । तथा वायुसुताद्याश्च मंगलस्तोत्रतत्पराः ॥ २८ ॥ बद्धुपाणिपुटा धन्या भाविता जिनपुंगवे । गृहीतमुकुलांभोजा इव राजति ते तदा ॥ २९ ॥ विमुंचत्सु स्वनं तेषु मुरजस्वनसुंदरम् । मेघध्वनिकृताशंका ननृतुश्छेकबर्हिणः ॥ ३० ॥ कृत्वा स्तुतिं प्रणामं च भूयो भूयः सुचेतसः । यथासुखं समासीनाः प्रांगणे जिनवेश्मनः ॥३१॥ यावत्ते वंदनां चक्रुस्तावद्राजा विभीषणः । सुमालिमाल्यवद्रत्नश्रवप्रभृतिबांधवान् ॥ ३२ ॥ संसारानित्यताभावदेशनात्यंतकोविदः । परिसांत्वनमानिन्ये महादुःखनिपीडितान् ।। ३३ ॥ आयौँ तात स्वकर्मोत्थफलभोजिषु जंतुषु । विधीयते सुधा शोकः क्रियतां स्वहिते मनः ॥३१॥ दृष्टागमा महाचित्ता यूयमेवं विचक्षणाः । वित्थ जातो यदि प्राणी मृत्युं न प्रतिपद्यते ॥ ३५ ॥ पुष्पसौंदर्यसंकाशं यौवनं दुर्व्यतिक्रमम् । पल्लवश्रीसमालक्ष्मीजीवितं विद्युदधुवम् ॥ ३६ ॥ . जलबुबुदसंयोगप्रतिमां बंधुसंगमाः । संध्यारागसमा भोगाः क्रियाः स्वप्नक्रियोपमाः ॥ ३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy