________________
पद्मपुराणम् ।
१०२
अशीतितमं पर्व यदि नाम प्रपद्येरन् जंतवो नैव पंचताम् । कथं संभवती गोत्रमागतः स्याद्भवांतरात् ॥ ३८ ॥ आत्मनोऽपि यदा नाम नियमाद्विशरारुता । तदा कथमिवात्यर्थं क्रियते शोकमूढता ॥ ३९ ॥ एवमेतदिति ध्यानं संसाराचारगोचरम् । सतां शोकविनाशाय पर्याप्त क्षणमात्रकम् ॥ ४० ॥ भाषितान्यनुभूतानि दृष्टानि च सुबंधुभिः । समं वृत्तानि साधूनां तापयंति मनः क्षणम् ॥४१॥ भवत्येव हि शोकेन संगो बंधुवियोगिनः । बलादिव विशालेन स्मृतिविभ्रंशकारिणा ॥ ४२ ॥ तथाऽप्यनादिकेऽमुष्मिन्संसारे भ्रमतो मम । केन बांधवतां प्राप्ता इति ज्ञात्वा सुगुह्यताम् ।।४३॥ यथा शक्त्या जिनेन्द्राणां भवध्वंसविधायिनाम् । विधाय शासने चित्तमात्मा स्वार्थे नियुज्यताम्॥ एवमादिभिरालापैर्मधुरैर्हृदयंगमैः । परिसांत्व्य समाधाय बंधून कृत्ये गृहं गतः ॥ ४५ ॥ अग्रां देवीसहस्रस्य व्यवहारविचक्षणाम् । प्रतिघाय विदग्धाख्यां महिषी हलिनोंतिकम् ।। ४६॥ आगत्य साभिजातेन प्रणामेन कृतार्थतां । ससीतौ भ्रातरौ वाक्यमिदं क्रमविदब्रवीत् ॥ ४७ ॥ असत्स्वामिगृहं देव स्वगृहाशयलक्षितम् । कर्तुं पादतलासंगान्महानुग्रहमर्हसि ॥४८॥ वर्तते संकथा यावशेषां वार्तासमुद्भवा । स्वयं विभीषणस्तावत्प्राप्तोऽत्यंतमहादरः ॥ ४९ ॥ उत्तिष्ठत गृहं यामः प्रसादः क्रियतामिति । तेनोक्तः सानुगः पद्मस्तद्गृहं गंतुमुद्यतः॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org