________________
पद्मपुराणम् ।
एकोनाशीतितम पर्व। शचीव संगता शक्रं रतिर्वा कुसुमायुधम् । जिनधर्ममहिंसा नु सुभद्रा भरतेश्वरम् ॥ ४७ ॥ चिरस्यालोक्य तां पद्मः संगम नूतनं विदन् । मनोरथशतैर्लब्धां फलभारप्रणामिभिः ॥ ४८ ॥ हृदयेन वहन् कंपं चिरासंगस्वभावजम् । महाद्युतिधरः कांतः संभ्रांततरलेक्षणः ॥ ४९ ॥ केयूरदष्टमूलाभ्यां भुजाभ्यां क्षणमात्रतः । संजातपीवरत्वाभ्यामालिलिंग रसाधिकम् ॥ ५० ॥ तामालिंगन्विलीनो नु मग्नो नु सुखसागरे । हृदयं संप्रविष्टो नु पुनर्विरहतो भयात् ॥ ५१ ॥ प्रियकंठसमासक्तबाहुपाशा सुमानसा । कल्पपादपसंसक्तहेमवल्लीव सा बभौ ॥५२॥ उद्भूतपुलकस्यास्य संगमेनातिसौख्यतः । मिथुनस्योपमा प्राप्तं तदेव मिथुनं परम् ।। ५३ ॥ दृष्टा सुविहितं सीता रामदेवसमागमम् । तमंबरगता देवा मुमुचुः कुसुमांजलिम् ॥ ५४॥ गंधोदकं च संगुंजन्भ्रांतभ्रमरभीरुकम् । विमुच्य मेघपृष्ठस्थाः ससृजुर्भारतीरिति ॥ ५५ ॥ अहो निरुपम धर्य सीतायाः साधुचेतसः । अहो गांभीर्यमक्षोभमहो शीलमनोज्ञता ॥ ५६ ॥ अहो तु व्रतनैष्कम्प्यमहो सत्वं समुन्नतम् । मनसापि यया नेष्टो रावणः शुद्धवृत्तया ॥५७॥ संभ्रांतो लक्ष्मणस्तावद्वैदेयाश्चरणद्वयम् । अभिवाद्य पुरस्तस्थौ विनयानतविग्रहः ।। ५८ ॥ पुरंदरसमच्छायं दृष्ट्रा चक्रधरं तदा । अस्रान्वितेक्षणा साध्वी जानकी परिषस्वजे ॥ ५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org