________________
पद्मपुराणम् ।
९६
एकोनाशीतितमं पर्व |
उत्तीर्ण द्विरदाधीशात्पद्मनाभः ससंभ्रमः । प्रमोदमुद्वहन्सीतां ससार विकवेक्षणः ॥ ३४ ॥ घनैवृंदादिवोत्तीर्य चंद्रबल्लांगलायुधः । रोहिण्या इव वैदेह्यास्तुष्टिं चक्रे समाव्रजन् ।। ३५ ।। प्रत्यासन्नत्वमायातं ज्ञात्वा नाथं ससंभ्रमात् । मृगीवदाकुला सीता समुत्तस्थौ महाधृतिः ॥ ३६ ॥ भूरेणुधूसरी भूतकेशीं मलिनदेहिकाम् | कालनिर्गलितच्छायबंधूकसदृशाधराम् ॥ ३७ ॥ स्वभावेनैव तन्वंगी विरहेण विशेषतः । तथापि किंचिदुच्छ्रासं दर्शनेन समागताम् ॥ ३८ ॥ आलिंगतीमिव स्निग्धैर्मयूखैः करजोद्गतैः । स्नपर्यंतीमिवोद्वेलविलोचनमचिभिः ॥ ३९ ॥ लिंपंतीमिव लावण्यसंपदा क्षणवृद्धया । वीजयंतीमिवोच्छ्रासै हर्षनिर्मद निर्गतैः ॥ ४० ॥ पृथुलावच्छ्रणी नेत्रविश्रामभूमिकाम् । पाणिपल्लव सौंदर्यजित श्रीपाणिपंकजाम् ॥ ४१ ॥ सौभाग्यरत्नसंभूतिधारिणीं धर्मरक्षिताम् । संपूर्णचंद्रवदनां कलंकपरिवर्जिताम् ॥ ४२ ॥ सौदामिनीसमच्छायामतिधीरत्वयोगिनीम् । मुखचंद्रांतरोद्भूतस्फीतनेत्रसरोरुहाम् ।। ४३ । कलुपत्वविनिर्मुक्तां समुन्नतपयोधराम् । चापयष्टिमनंगस्य वक्रतापरिवर्जिताम् ॥ ४४ ॥ आयांतीमंतिकं किंचिद्वैदेहीमापराजितः । विलोक्य निरुपाख्यानं भावं कमपि संगतः ॥ ४५ ॥ विनयेन समासाद्य रमणं रतिसुंदरी । वाष्पाकुलेक्षणा तस्थौ पुरः संगमनाकुला || ४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org