________________
पद्मपुराणम् ।
९८
एकोनाशीतितमं पर्व |
उवाच च यथा भद्र गदितं श्रमणोत्तमैः । महाज्ञानधरैः प्राप्तं पदमुच्चैस्तथा त्वया ॥ ६० ॥ स त्वं चक्रांकराज्यस्य भाजनत्वमुपागतः । न हि निर्ग्रन्थसंभूतं वचनं जायतेऽन्यथा ॥ ६१ ॥ raiser बलदेवत्वं तव ज्येष्ठः समागतः । विरहानलमनाया येन मे जनिता कृपा ।। ६२ ।। उडुनाथांशुविशदद्युतिस्तावदुपाययौ । स्वसुः समीपधरणीं श्रीभामंडलमंडितः ।। ६३ । दृष्ट्वा तं मुदितं सीता सौदर्यस्नेहनिर्भरा । रणप्रत्यागतं वीरं विनीतं परिषस्वजे ॥ ६४ ॥ सुग्रीव वायुतनयो नलो नीलांगदस्तथा । विराधितोऽथ चंद्राभः सुषेणो जांबवो बली ॥ ६५ ॥ जीमूतशल्यदेवाद्यास्तथा परमखेचराः । संभाव्य निजनामानि मूनी कृत्वाभिवादनम् ॥ ६६ ॥ विलेपनानि चारूणि वस्त्राण्याभरणानि च । पारिजातादिजातानि माल्यानि सुरभीणि च ॥ ६७॥ सीताचरणराजीवयुगलांतिक भूतले । अतिष्ठिपन् सुवर्णादिपात्रस्थानि प्रमोदिनः ।। ६८ ।। ऊच देवि त्वमुदारभावा । सर्वत्र लोके प्रथितप्रभावा ॥
श्रिया महत्या गुणसंपदा च । प्राप्ता पदं तुंगतमं मनोज्ञम् ॥ ६९ ॥ देवस्तुताचारविभूतिधानी । प्रीताऽधुना मंगलभूतदेहा ॥ जयदेवयुक्ता | प्रभारवेर्यद्वदुदात्तलीला ॥ ७० ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे सीतासमागमाभिधानं नामैकोनाशीतितमं पर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org