________________
पद्मपुराणम् ।
१४
एकोनाशीतितमं पर्व |
महाकौतुकयुक्तानामाकुलानां निरीक्षणे । तासां मुखेषु निश्रेरुदिति वाचो मनोहराः ॥ ८ ॥ सखि पश्यैष रामोऽसौ राजा दशरथात्मजः । राजत्युत्तमया योऽयं रत्नराशिरिव श्रिया ॥ ९ ॥ संपूर्ण चंद्रसंकाशः पुंडरीकायतेक्षणः । अपूर्वकर्मणां सर्गः कोऽपि स्तुत्यधिक कृतिः ॥ १० ॥ इमं या लभते कन्या धन्या रमणमुत्तमम् । कीर्तिस्तंभस्तथा लोके स्थापितोऽयं स्वरूपया ॥ ११ ॥ परमश्चरितो धर्मश्चिरं जन्मांतरे यया । ईदृशं लभते नाथं सा सुनारी कुतोऽपरा ॥ १२ ॥ सहायतां निशास्वस्य या नारी प्रतिपद्यते । सैवैका योषितां मूर्ध्नि वर्त्तते परया तु किम् ॥१३॥ स्वर्गतः प्रच्युता नूनं कल्याणी जनकात्मजा । इमं रमयति श्लाघ्यं पतिमिन्द्रं शचीव या ॥ १४ ॥ असुरेन्द्रसमो येन रावणो रणमस्तके । साधितो लक्ष्मणः सोऽयं चक्रपाणिर्विराजते ॥ १५ ॥ भिन्नांजनदलच्छाया कांतिरस्य बलत्विषः । भिन्ना प्रयागतीर्थस्य धत्ते शोभां विसारिणीम् १६ चंद्रोदरसुतः सोऽयं विराधितनरेश्वरः । नययोगेन येनेयं विपुला श्रीरवाप्यते ॥ १७ ॥ असौ किकिधराजोऽयं सुग्रीवः सत्त्वसंगतः । परमं रामदेवेन प्रेम यत्र नियोजितम् ॥ अयं स जानकी भ्राता प्रभामंडलमंडितः । इंदुना खेचरेंद्रेण यो नीतः पदमीदृशम् ।। वीरोंऽगदकुमारोऽयमसौ दुर्लडितः परम् | यस्तदा राक्षसेन्द्रस्य विनं कर्त्तुं समुद्यतः ॥
१८ ॥
१९ ।। २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org