SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकोनाशीतितम पर्व । चत्वारिंशदथाष्टकं सुमनसां ज्ञेयं सहस्राणि हि । स्त्रीणां संयममाश्रितानि परमं तुल्यानि भासां रखेः ॥ ९५ ॥ इत्योर्ष रविषेणाचार्यप्रोक्ते पद्मपुराणे इन्द्रजितादिनिष्क्रमणाभिधानं नामाष्टसप्ततितमं पर्व । अथैकोनाशीतितम पर्व। ततश्च पद्मनाभस्य लक्ष्मणस्य च पार्थिव । कर्तव्या सुमहाभूतिः कथा लंकाप्रवेशने ॥१॥ महाविमानसंघातैर्घटाभिश्च सुदंतिनाम् । परमैरश्ववृन्दैश्च रथैश्च भवनोपमैः ॥२॥ निकुंजजप्रतिस्त्रानबधिरीकृतदिङ्मुखैः । वादिनिःस्वनै रम्यैः शंखस्वनविमिश्रितैः ॥३॥ . विद्याधरमहाचक्रसमेतौ परमाती । बलनारायणौ लंकां प्रविष्टाविंद्रसंनिभौ ॥४॥ दृष्ट्वा तौ परमं हर्षे जनता समुपागता । मेने जन्मांतरोपात्तधर्मस्य विपुलं फलम् ॥ ५॥ तस्मित्राजपथेप्राप्ते बलदेवे सचक्रिणि । व्यापाराः पौरलोकस्य प्रयाताः कापि पूर्वकाः ॥६॥ विकचा:मुखैः स्त्रीणां जालमार्गास्तिरोहिताः । सनीलोत्पलराजीवैरिव रेजुर्निरंतरम् ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy