________________
पद्मपुराणम्।
अष्टसप्ततितम पर्व ।
पतिपुत्रविरहदुःखज्वलनेन विदीपिता सती जाता।
- मंदोदरी नितांत विहलहृदया महाशोका ।। ८५॥ मूर्छामेत्य विबोधं प्राप्य पुनः कुररकामिनी करुणम् ।
कुरुते स्म समाकंदं पतिता दुःखांबुधावुने ॥ ८६ ॥ हा पुत्रंद्रजितेदं व्यवसितमीहक्कथं त्वया कृत्यम् ।
___ हा मेघवाहन कथं जननी नापेक्षिता दीना ॥ ८७ ॥ युक्तमिदं किं भवतोरनपेक्ष्य यदुग्रदुःखसंतप्ताम् । ___मातरमेतद्विहितं किंचित्कार्य सुदुःखेन ॥ ८८ ॥ विरहितविद्याविभवौ मुक्ततनू क्षितितले कथं परुषे ।
स्थातास्थो मे वत्सौ देवोपमभोगदुर्ललितौ ॥ ८९ ॥ हा तात कृतं किमिदं भवताऽपि विमुच्य भोगमुत्तमं रूपम् ।
एकपदे कथय कथं त्यक्तस्नेहस्त्वया त्वपत्यासक्तः ॥९॥ जनको भर्ता पुत्रः स्त्रीणामेतावदेव रक्षनिमित्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org