________________
पद्मपुराणम् ।
पंचमं पर्व । रत्नभूमिपरिक्षिप्तं विकाशिविविधद्युतिं । घनपल्लवसच्छायलतामंडपमंडितं ॥ २९९ ॥ अगमत्प्रमदोद्यानमंतःपुरसमन्वितः । महत्या संपदा युक्तो विद्याबलसमुच्छ्रयः ॥ ३००॥ तत्र क्रीडितुमारेभे वनिताभिरसौ समं । कुसुमैः ताड्यमानश्च ताडयंश्च यथोचितं ॥ ३०१ ॥ कांचित्पादप्रणामेन कुपितामीर्षया स्त्रियं । सांत्वयनन्ययातेन सांत्वमानः सुलीलया ॥ ३०२ ॥ उरसा प्रेरयन् कांचित्रिकूटतटशोभिना । पीवरस्तनरम्येण प्रेयेमाणस्तथान्यया ॥ ३०३॥ पश्यन्प्रच्छन्नगात्राणि क्रीडाव्याकुलयोषितां । रतिसागरमध्यस्थो नंदनेऽमरराजवत् ॥ ३०४ ॥ अथ वक्रे त्रियामायाः परं संकोचमीयुषि । राजीवसंपुटे पश्यद्विरेफ स निपीडितं ॥ ३०५ ॥ दृष्ट्वा चास्य समुत्पन्ना चिंतेयं भवनाशिनी । कर्मणो मोहनीयस्य याते शिथिलतां गुणे ॥३०६॥ मकरंदरसासक्तो मूढस्तृप्तिमनागतः । मृतिं मधुकरः प्राप्तो धिगिच्छामंतवर्जितां ॥ ३०७ ।। यथायमत्र संशक्तः प्राप्तो मृत्युं मधुव्रतः। प्राप्स्यामो वयमप्येवं शक्ताः स्त्रीमुखपंकजे ॥३०८॥ यदि तावदयं ध्वस्तो घ्राणेन रसनेन च । कैव वार्ता तदास्मासु पचेंद्रियवशात्मसु ॥३०९॥ तिर्यग्जातिसमेतस्य युक्तं वास्येदमीहितुं । वयं तु ज्ञानसंपन्नाः संगमत्र कथं गताः ॥ ३१० ॥ मधुदग्धासिधाराया लेहने कीदृशं सुखं । रसनं प्रत्युतायाति शतधा यत्र खंडनं ॥ ३११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org