________________
९१
पद्मपुराणम् ।
पंचमं पर्व। विषयेषु तथा सौख्यं कीदृशं नाम जायते । यत्र प्रत्युत दुःखानां उपर्युपरिसंततिः ॥ ३१२ ॥ किंपाकफलतुल्येभ्यो विषयेभ्यः पराङ्मुखाः । ये नरास्तान्नमस्यामि कायेन वचसा धिया ३१३ हा कष्टं वंचितः पापो दीर्घकालमहं खलैः । विषयैर्विषमासंगैर्विषवन्मारणात्मकैः ॥ ३१४ ॥ अथात्र समये प्राप्तस्तमुद्यानं महामुनिः । अर्थानुगतया युक्तः श्रुतसागरसंज्ञया ॥ ३१५ ॥ पूर्णः परमरूपेण खूपयन् कांतितो विधुं । तिरस्कुर्वन् रविं दीप्त्या जयं स्थैर्येण मंदरं ॥ ३१६॥ धर्मध्यानप्रशक्तात्मा रागद्वेषविवर्जितः । भग्नस्त्रिदंडसंपर्कः कषायाणां समे रतः ॥ ३१७ ॥ वशीकतो हृषीकाणां षट्कायप्राणिवत्सलः । भीतिभिः सप्तभिमुक्तो मदाष्टकविवर्जितः ॥ ३१८ ॥ साक्षादिव शरीरेण धर्मसंबंधमागताः । सहितो यतिसंघेन महता चारुचेष्टिना ॥ ३१९ ॥ स तत्र विपुले शुद्धे भूतले जंतुवर्जिते । उपविष्टस्तनुच्छायास्थगिताशेषदिग्मुखः ॥ ३२० ॥ तत्रासीनं विदित्वैनं मुखेभ्यो वनरक्षिणां । अभीयाय महारक्षो विभ्रदुत्कंठितं मनः ॥ ३२१॥ अथास्याप्तिप्रसन्नास्यकांतितोयेन पादयोः । कुर्वन् प्रक्षालनं राजा पपात शिवदायिनोः ॥३२२॥ प्रणम्य शेषसंघ च पृष्ट्वा क्षेमं च धर्मगं । अवस्थाय क्षणं धर्म पर्यपृच्छत्सभक्तितः॥ ३२३ ॥ अथोपशमचंद्रस्य चित्तस्थस्येव निर्मलैः । दंतांशुपटलैः कुर्वन् ज्योत्स्ना मुनिरभाषत ॥ ३२४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org