________________
पद्मपुराणम् ।
९२
पंचमं पर्व |
अहिंसा नृप सद्भावो धर्मस्योक्तो जिनेश्वरैः । परिवारोस्तु शेषोस्य सत्यभाषादिरिष्यते || ३२५ || यां यां जीवाः प्रपद्यंते गतिं कर्मानुभावतः । तत्र तत्र रतिं यांति जीवनं प्रतिमोहितः || ३२६ ॥ त्रैलोक्यं परित्यज्य लाभं मरणभीरवः । इच्छंति जीवनं जीवा नान्यदस्ति ततः प्रियं || ३२७|| किमत्र बहुनोक्तेन स्वसंवेद्यमिदं नतु । यथा स्वजीवितं कांतं सर्वेषां प्राणिनां तथा ॥ ३२८ ॥ तस्मादेवंविधं मूढा जीवितं ये शरीरिणां । हरंति रौद्रकर्माणः पाप तैर्न च किं कृतं ।। ३२९ ॥ जंतूनां जीवितं नीत्वा कर्मभारगुरूकृताः । पतंति नरके जीवा लोहपिंडवदंभसि ॥ ३३० ॥ मधुवंतिये वाचा हृदये विषदारुणाः । वशे स्थिता हृषीकाणां त्रिसंध्याद्ग्धमानसाः ।। ३३१ ॥ साध्वाचारविनिर्मुक्ता यथाकामविधायिनः । ते भ्रमंति दुरात्मानस्तिर्थग्गर्भपरंपरां ॥ ३३२ ॥ दुर्लभं सति जंतुत्वे मनुष्यत्वं शरीरिणां तस्मादपि सुरूपत्वं ततो धनसमृद्धता ॥ ३३३ ॥ ततोप्यार्यत्वसंभूतिस्ततो विद्यासमागमः । ततोप्यर्थज्ञता तस्माद्दुर्लभो धर्मसंगमः ॥ ३३४ ॥ कृत्वा धर्मे ततः केचित्सुखं प्राप्य सुरालये । देव्यादिपरिवारेण कृतं मानसगोचरं ।। ३३५ ।। च्युत्वा गर्भगृहे भूयोविड्मूत्रकृतलेपने । चलत्कुमिकुलाकीर्णे दुर्गधेत्यं तदुस्सहे ॥ ३३६ ॥ चर्मजालकसंछन्नाः पित्तश्लेष्मादिमध्यगाः । जनन्याहारनिस्पंदं लिहतो नाडिकाच्युतं ॥ ३३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org