________________
पद्मपुराणम् ।
पंचमं पर्व। पिंडीकृतसमस्तांगा दुःखभारसमार्दिताः । उषित्वा निर्गता लब्ध्वा मनुष्यत्वमनिंदितं ॥३३८॥ जन्मनः प्रभृति क्रूरा नियमाचारवर्जिताः । सदृष्टिरहिताः पापा विषयान्समुपासते ॥ ३३९ ॥ ये कामवशतां याताः सम्यक्त्वपरिवर्जिताः । प्राप्नुवंतो महादुःखं ते भ्रमंति भवार्णवे ॥३४०॥ परपीडाकरं वाक्यं वर्जनीयं प्रयत्नतः । हिंसायाः कारणं तद्धि सा च संसारकारणं ॥ ३४१ ॥ तथास्तेयं स्त्रियाः संग महादविणवांच्छनं । सर्वमेतत्परित्याज्यं पीडाकरणतां गतं ॥ ३४२ ॥ श्रुत्वा धर्म समाविष्टो वैराग्यं खेचराधिपः । पप्रच्छ प्रणतिं कृत्वा व्यतीतं भवमात्मनः॥३४३॥ चतुर्ज्ञानोपगूढात्मा विनयेनोपसेदुषे । इति तस्मै समासेन जगाद श्रुतसागरः ॥ ३४४ ॥ भरते पोदनस्थाने हितो नाम नरोभवत् । माधवीति च भार्यास्य प्रीत्याख्यस्त्वं तयोः सुतः३४५ अथ तत्रैव नगरे नृपोऽभूदुदयाचलात् । अर्हच्छ्रियां समुत्पनो नान्ना हेमरथो महान् ॥ ३४६ ॥ प्रासादे सोन्यदा जैने श्रद्धया परयान्वितः । चकार महती पूजां लोकविस्मयकारिणीं ॥३४७॥ तस्मादुत्थितमाकये जयशब्दं जनैः कृतं । जयेत्यानंदपूर्णेन त्वयापि परिघोषितं ॥ ३४८ ॥ अमाते च ततस्तस्मिन् गृहाभ्यंतरतो मुदा । शिखिनेव धनध्वानानर्तनं कृतमंगणे ॥ ३४९ ॥ तस्मादुपात्तकुशलो गतः कालेन पंचतां । अजायत महान् यक्षो यक्षनेत्रसमुत्सवः ॥ ३५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org