SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । पंचमं पर्व । अवरस्मिन् विदेहेथ पुरे कांचननामनि । साधूनां शत्रुभिः कर्तुमुपसर्गः प्रवर्तितः ॥ ३५१ ॥ निर्घाट्य तान् त्वया शत्रून् मुनीनां धर्मसाधनं । शरीरं रक्षितं तस्मात्पुण्यराशिरुपार्जितः ३५२ विजया? ततश्च्युत्वा तडिदंगदखेचरात् । श्रीप्रभायां समुद्भूत उदितो नाम विश्रुतः ॥ ३५३ ॥ वंदनाय समायातं नाम्ना चामरविक्रमं । दृष्टवानसिविद्येशं निदानमकरोत्ततः ॥३५४ ॥ ततो महत्तपस्तप्त्वा कल्पमैशानमुत्थितः । एष प्रच्युत्य भूतोसि सांप्रतं घानवाहनिः ॥ ३५५ ॥ भास्करस्यंदनस्येव चक्रेण परिवर्तनं । कृतं त्वया तु संसारे स्त्रीजिह्वावशवर्तिना ॥ ३५६ ॥ यावंतः समतिक्रांतास्तव देहा भवांतरे । पिंड्यंते यदि ते लोके संभवेयुने जातुचित् ॥३५७॥ कल्पानां कोटिभिस्तृप्तिं सुरभोगने योगतः । खेचराणां च भोगेन स्वेच्छाकल्पितवृत्तिना ३५८ अष्टभिर्दिवसैः स त्वं कथं प्राप्त्यसि तर्पणं । स्वप्नजालोपमैर्भोगैरधुना भज्यतां शमः ॥३५९॥ ततस्तस्य विषादोऽभून्नायुःक्षयसमुत्थितः । किंतु संसारचक्रस्थजन्मांतरविवर्तनात् ॥ ३६० ॥ स्थापयित्वा ततो राज्ये तनयं देवरक्षसं । युवराजप्रतिष्ठायां तथा भास्कररक्षसं ॥३६१॥ त्यक्त्वा परिग्रहं सर्व परमार्थपरायणः । स्तंभतुल्यो महारक्षलोभेनाभवदुज्झितः ॥ ३६२ ॥ पानाहारादिकं त्यक्त्वा सर्व देहस्य पालनं । समः शत्रौ च मित्रे च मनः कृत्वा सुनिश्चलं॥३६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy