________________
पद्मपुराणम् ।
पंचमं पर्व। मौनव्रतं समास्थाय जिनप्रासादमध्यगः । कृत्वा सुमहती पूजामर्हतामभिषेकिणीं ॥ ३६४ ॥ अर्हत्पदपरिध्यानपवित्रीकृतचेतनः । कृत्वा समाधिना कालं स बभूव सुरोत्तमः ॥ ३६५ ॥ अथ किंनरनादाख्ये पुरे श्रीधरनामतः । विद्याजातामरिंजायां देवरक्षः प्रपन्नवान् ॥ ३६६ ॥ गंधर्वगीतनगरे सुरसन्निभनामतः । गांधारी गर्भसंभूतां गंधर्वां भानुरूढवान् ॥ ३६७ ॥ सुता दश समुत्पन्ना मनोज्ञा देवरक्षसः । देवांगनासुरूपाश्च षट्कन्या गुणभूषणाः ॥ ३६८॥ तावंतएव चोत्पन्ना सुताःकन्याश्च तत्समाः । आदित्यरक्षसो राज्ञः कीर्तिव्याप्तदिगंतराः॥३६९।। स्वनामसहनामानि महांति नगराणि तैः । निवेशितानि रम्याणि श्रेणिकैतानि जित्वरैः।।३७०॥ संध्याकारः सुवेलश्च मनोल्हादो मनोहरः । हंसद्वीपो हरिर्योधः समुद्रः कांचनस्तथा ॥ ३७१॥ अर्धस्वर्गादिशश्चापि निवेशा स्वर्गसन्निभाः। गीर्वाणरक्षसः पुत्रैर्महाबुद्धिपराक्रमैः ॥ ३७२ ॥ आवर्तविघटांभोदा उत्कटस्फुटदुर्ग्रहाः । तटतोयावलीरत्नद्वीपाश्चाभांति राक्षसैः ॥ ३७३ ।। नानारत्नकृतोद्योता हेमभित्तिप्रभा सुराः । राक्षसानां बभूवुस्ते निवासाः क्रीडनार्थिनां।।३७४॥ तत्रैव खेचरैरेभिर्वीपांतरसमाश्रितैः । सन्निवेशा महोत्साहनगराणां प्रकल्पिताः ॥ ३७५ ॥ ततस्तौ पुत्रयोः राज्यं दत्वा दीक्षां समाश्रितौ । महातपोधनौ भूत्वा पदं यातौ सनातनं॥३७६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org