________________
९६
पद्मपुराणम् ।
पंचमं पर्व ।
एवं महति संताने प्रवृत्ते घानवाहने । महापुरुषनिर्व्यूढराज्यप्रावाज्यवस्तुनि ॥ ३७७ ॥ राक्षसस्तनयो जातो मनोवेगांगधारिणः । राक्षसो नाम यस्यायं नाम्ना वंशः प्रकीर्त्यते ॥ ३७८ ॥ तस्यादित्यगतिर्यातो बृहत्कीर्तिश्च नंदनः । योषायां सुप्रभाख्यायां रविचंद्रसमप्रभौ ।। ३७९ ।। वृषभौ तौ समासज्य राज्यस्यंदनजे भरे । श्रमणत्वं समाराध्य देवलोकं समाश्रितः ।। ३८० ॥ जाता सदनपद्माख्या भार्यादित्यगतेर्वरा । वृहत्कीर्तेस्तथा पुष्पन खेति परिकीर्तिता ॥ ३८१ ॥ अथादित्यगतेः पुत्रो नाम्ना भीमप्रभोऽभवत् । सहस्रं यस्य पत्नीनामभूद्देवांगनारुचां ॥ ३८२ ॥ आसीदष्टोत्तरं तस्य पुत्राणां शतमूर्जितं । स्तंभैरिव निजं राज्यं धारितं यैः समंततः ॥ ३८३ ॥ आत्मजाय ततो राज्यं वितीर्य ज्यायसे प्रभुः । भीमप्रभः प्रववाज प्राप्तश्च परमं पदं ।। ३८४ ।। देवेन राक्षसेंद्रेण राक्षसद्वीपमंडले । कृतानुकंपना ऊषुः सुखेनांवरगामिनः ॥ ३८५ ॥ रक्षति रक्षसां द्वीपं पुण्येन परिरक्षिताः । राक्षसानामतो द्वीपं प्रसिद्धिं तदुपागतं ।। ३८६ ॥ एष राक्षसवंशस्य संभवः परिकीर्तितः । वंशप्रधानपुरुषान्कीर्तियिष्याम्यतः परं ।। ३८७ ।। पुत्रो भीमप्रभस्याद्यः पूजार्हो नाम विश्रुतः । प्रवव्राज श्रियं न्यस्य तनये जितभास्करे || ३८८ || सोपि परिकीर्त्याख्ये स्थापयित्वा श्रियं सुते । प्राव्रजत्सोपि सुग्रीवे निधाय प्राप दीक्षणं ३८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org