________________
पद्मपुराणम् ।
पंचमं पर्व। सुग्रीवोपि हरिग्रीवं सन्निवेश्य निजे पदे । उग्रं तपः समाराध्य बभूव सुरसत्तमः ॥ ३९० ॥ हरिग्रीवोपि निक्षिप्य श्रीग्रीवे राज्यसंपदं । गृहीतश्रमणाचारो वनांतरमशिश्रियत् ॥ ३९१ ॥ आरोग्य सुमुखे राज्यं श्रीग्रीवो जनकाश्रितं । मार्गमाश्रितवान् वीरः सुव्यक्ते सुमुखस्तथा ३९२ सुव्यक्तोमृतवेगाख्य न्यस्तवान् राक्षसीं श्रियं । स चापि भानुगत्याहे स च चिंतागतौ सुते ३९३ इंद्र इंद्रप्रभो मेघो मृगारिदमनः पविः । इंद्रजिद्भानुवर्मा च भानुर्भानुसमप्रभः ॥ ३९४ ॥ सुरारिस्त्रिजटो भीमो मोहनोद्वारको रविः । चकारो वज्रमध्यश्व प्रमोदः सिंहविक्रमः ॥ ३९५॥ चामुंडो मारणो भीष्मो द्विपवाहोरिमर्दनः । निर्वाणभक्तिरुपश्रीरहद्भक्तिरनुत्तरः ॥ ३९६॥ गतभूमोनिलवंडो लंकाशोको मयूरवान् । महाबाहुर्मनोरम्यो भास्कराभो बृहदगतिः ॥ ३९७ ॥ बृहत्कांतोरिसंत्रासश्चंद्रावर्तो महारवः । मेघध्वान ग्रहक्षोभ नक्षत्रदमनादयः॥ ३९८॥ संख्यैवं कोटिशस्तेषां दृष्टव्यांबरचारिणां । मायावीर्यसमेतानां विद्याबलमहारुचां ॥३९९ ॥ विद्यानुयोगकुशलाः सर्वे श्रीशक्तवक्षसः । लंकायां स्वामिनः कांताः प्रायशः स्वर्गतश्च्युताः४०० स्वेषु पुत्रेषु निक्षिप्य लक्ष्मी वंशक्रमागतां । संविना राक्षसाधीशा महापात्राज्यमाश्रिताः॥४०१॥ कोचित्कर्मावशेषेण त्रिलोकशिखरं गताः । दिवमीयुः परे केचित्पुण्यपाकानुभावतः ॥ ४०२।।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org