SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । षष्ठं पर्व । एवं तेष्वप्यतीतेषु घनप्रभसुतोभवत् । लंकायामधिपः कीर्तिधवलो नाम विश्रुतः ॥ ४०३ ॥ पद्मागर्भे समुद्भूतः खेचरैः कृतशासनः । संभुक्ते परमैश्वर्यं सुनासीरो यथा दिवि ॥ ४०४ ॥ एवं भवांतरकृतेन तपोबलेन । संप्राप्नुवंति पुरुषा मनुजेषु भोगान् ॥ देवेषु चोत्तमगुणागुणभूषितांगाः । निर्दग्धकर्मपटलाश्च भवंति सिद्धाः ॥ ४०५ ॥ दुष्कर्मशक्तमतयः परमां लभते । निंदां जना इहभवे मरणात्परं च ॥ दुःखानि यांति बहुधा पतिताः कुयोनौ । ज्ञात्वेति पापतमसो रचितां भजध्वं ॥४०६॥ इत्यार्षे रविषेणाचार्यप्रोक्त पद्मचरिते राक्षसवंशाधिकारः पंचमं पर्व । अथ षष्ठं पर्व । वंशो रक्षोनभोगानां मया ते परिकीर्तितः । शृणु वानरकेतूनां संतानमधुना नृप ॥१॥ विजयाईगिरे गे दक्षिणे स्वर्गसन्निभे । पुरं मेघपुरं नाम्ना तुंगप्रसादशोभितं ॥२॥ विद्याभृतां पतिस्तस्मिन्नतींद्रो नाम विश्रुतः । अतिक्रम्य च यः शक्रं स्थितो भोगादिसंपदा ॥३॥ श्रीमती नाम तस्यासीत्कांता श्रीसमविभ्रमा । यस्याः सति मुखे पक्षो ज्योत्स्नयेव सदाभवत् ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy